________________
•
256
Catalogue of Palm-Leaf Mss. in the
संप्रापि योगशास्त्रात्तद्विवृत्तेश्चापि यन्मया सुकृतम् । तेन जिनवोधिलाभप्रणयी भन्यो जनो भवतात् ॥ छ ॥
इति परमार्हतश्रीकुमारपाल भूपालशुश्रूपिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबंधे श्री योगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ छ ॥ * ॥ छ ॥ ग्रन्थ श्लोक १२००० । संपूर्ण योगशास्त्रविवरणमिति ॥ छ || मंगलं महाश्री ॥ छ ॥ भृङ्गीणामिव पक्षपातललितैर्लीलागृहं सुथियां
सुच्छायो विततोऽतिविस्मयकरः श्रीमालवंशोऽस्त्यसौ । उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये
यत्र च्छत्रपरंपरा ननु परादृश्यन्त एवानिशम् ॥ १ ॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी
कान्त्युल्लासैर्निरुपमतम, साधुवृत्तानुसारी । शुद्ध ध्यानोपचितसुकृतो देवपूजादिनिष्ठ.
श्रेष्ठी श्रेष्ठः सुनयविनयः साभदेवो गरिष्ठ ॥ २ ॥ पासिलाख्य. सुतस्तस्मादत्यद्भुतसुवैभवात् । सुमनोवर्गमुख्योऽभूज्जयन्त इव वासवात् ॥ ३ ॥
अगण्यपुण्यलावण्या तस्य पूनाविनामिका । सीतेव रामचन्द्रस्य जाता पत्नी पतिव्रता ॥ ४ ॥ तौ सर्वदेव-साभाख्यौ तत्कुलव्योममंडनम् । जज्ञाते ज्ञातमाहात्म्यौ चंद्रार्काविव विश्रुतौ ॥ ५ ॥ एतयोः सोहिणिर्भग्नी भग्नकंदर्पशासना । जिनशासनधरा जज्ञे सज्ज्ञानाम्भोजदीर्घिका ॥ ६ ॥ श्रेष्ठिनः सर्वदेवस्य पार्श्वनागः सुतोऽजनि । लक्ष्मीकुक्षिभवा शान्ता तस्य थामिणिरात्मजा ॥ ६॥ जाते सधर्मचारिण्यौ धर्मकर्मातिकर्मठे | साभाकस्य सदा भक्ते वीरी - वयजसंज्ञिते ॥ ७ ॥ वीकायाः सुते जाते जातिश्लाघ्ये शमान्विते । सीता - जास्यौ जिनाधीशधर्माराधनतत्परे ॥ ८ ॥