________________
Sánlınātha Jain Bhandara Cambay
255
No. 160
Yogaśāstram-with his own Vfttı
योगशास्त्रम्-स्वोपज्ञवृत्तियुक्तम् Folios - 393
Extent - Granthas 12000 Language - Sansknt
Size - 30 2 X 2 2 inches Author - Hemacandrācārya
Condition - Good General Remarks - A corrected manuscript Age of MS. - VS 1251 आदिः
॥ अहम् ॥ प्रणम्य सिद्धाद्भुतयोगसम्पदे श्रीवीरनाथाय विमुक्तिशालिने ।
स्त्रयोगशास्त्रार्थविशेषनिर्णयो भव्याववोधाय मया विधास्यते ॥ १ ॥ . तस्य चायमादिश्लोकः__ नमो दुर्वाररागादिवैरिवारनिवारिणे ।
अर्हते योगिनाथाय महावीराय तायिने ॥ १ ॥ अत्र महावीरायेति विशेष्यपदम् । अन्तःइदानी श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वाहणानूद्योपसंहरति ॥ छ । या शास्त्रात् सुगुरोर्मुखादनुभवाच्चाज्ञायि किंचित् क्वचि
द्योगस्योपनिषद् विवेकिपरिपञ्चेतश्चमत्कारिणी। श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना
दाचार्येण निवेशिता पथि गिरा. श्रीहेमचंद्रेण सा ॥ या योगस्योपनिषद्रहस्यमज्ञायि ज्ञाता । कुतः, शास्त्रात् द्वादशाहादागमात् । सुगुरोः सदागमव्याख्यातुर्मुखात् साक्षादुपदेशात् । अनुभवात् स्वसंवेदनरूपात् किंचिदिति स्वप्नज्ञानानुसारेण । क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे कचन । उपनिषदमेव विशिनष्टि । विवेकिना योगरुचीना या परिपत् सभा तस्या यच्चेतस्तच्चमत्करोतीत्येवंशीला सा योगस्योपनिषत् । श्रीचौलुक्यो यः कुमारपालनृपतिस्तस्यात्यर्थमभ्यर्थनया । स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं . शुश्रूपमाणोऽत्यर्थमभ्यर्थितवान् । ततस्तदभ्यर्थनतो वचनस्यागोचराऽपि उपनिषत् गिरां पथि निवेशितवानाचार्यश्रीहेमचन्द्र इति शुभम् ॥
श्रीचौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं,
तत्त्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम्। । स्वोपज्ञस्य व्यरचयमिमा तावदेपा च नन्द्याद्,
द्यावज्जैनप्रवचनवती भुभूव स्वस्त्रयीयम् ॥