SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 252 Catalogue of Palm-Leaf Mss. in the ज्ञानं मोहमहाधकारदलने रत्नप्रदीपायते ज्ञानं दुर्गतिदुर्गकूपपतने हस्तावलवायते । गंभीरे भववारिधौ भवभृतां ज्ञानं सुपोतायते ___ज्ञानं कामितवस्तुलाभविषये सत्कामधेनूयते ॥ ११ ॥ इत्येवं शुभदेशनां बहुविधा श्रुत्वा गुरूणां मुखा देषा दोपपराङ्मुखी जिनमते रक्ता विरक्ता भवे । सप्तक्षेत्रनिजार्थवीजवपनासक्ता विशेषात् पुन नानापुस्तकलेखने कृतमतिर्नाऊरिह श्राविका ॥ १२ ॥ इतश्चतुर्भिः संबंधः-- श्रीशीलगणसूरीशपूज्यपट्टप्रतिष्ठितैः । . वाल्यादपि महापुण्यश्रेण्यां नित्यमधिष्ठितैः ॥ १३ ॥, श्रीमानतुंगररिभिराराध्यैस्तत्र यज्जयंत्याख्यम् । प्रकरणमकारि शुभदं भगवत्यंगान्मनोहारि ॥ १४ ॥ तस्योपरि गुरुभक्त्या विदधे सुधिया मनोरमा वृत्तिः । श्रीमलयप्रभसूरिभिरिह या पूज्यैः प्रसन्नतमैः ॥ १५ ॥ - तामिह सा नाऊका ज्ञानाराधनधिया सुगुरुभक्त्या ।' ' लेखितवंती गुणवती महासती शुद्धशुभभावा ।। १६ ॥ । यावच्चारुमरीचिसंचयचिते चंद्रार्कयोमंडले राजेते गगनश्रियो मणिमये दिव्ये चलत्कुंडले । ताराश्रेणिरियं पुन. सुकुसुमालंकारशोभावहा ___ तावत् पुस्तकमेतदद्भुततमं व्याख्यायतां सूरिभिः ॥ १७ ॥ स्वस्ति श्रीविक्रमनरेन्द्रतः संवत् १२६१ वर्षे अश्विनवदि ७ रवौ पुष्यनक्षत्रे शुभयोगे श्रीमदणहिलपाटके महाराजाधिराजश्रीभीमदेवकल्याणविजयिराज्ये प्रवर्त्तमाने श्रीप्राग्वाटज्ञातीयश्रेष्ठिधवलमरुपुत्र्या ठ०. नाऊश्राविकया आत्मश्रेयोऽर्थ - पंडितमुंजालहस्तेन मंकुशिकास्थाने जयंतीवृत्तिपुस्तकं लेखयित्वा श्रीअजितदेवसूरीणां निजभक्त्या समर्पितमिति ॥ छ ॥ शुभं भवतु । मंगलमस्तु । मंगलं महाश्रीः ॥ छ ।।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy