________________
251
Śäntınātha Jain Bhandāra Cambay
आनंदाधायिमूर्तिस्त्रिभुवनभवनोत्संगरंगत्सुकीर्तिः
स्फूर्जत्पुण्यप्रबंधोद्भववशविलसत्प्राभवस्फूर्तिपूर्तिः ॥ २ ॥ नयविनयविततिविढपितसिताशुसितकीर्तिधवलितदशाशः । पुण्याचारपवित्रस्तत्पुत्रो धवलनामाऽऽसीत् ॥ ३ ॥ अजनीह मरूसंज्ञा मरुस्थलीपापपंकजवनस्य । तस्य प्रवरा जाया विशुद्धशीला विगतमाया ॥ ४ ॥ तत्पुत्री ठक्कुराणी समभवदसमक्षातिविस्तीर्णशाला
नाऊनामा शशाकद्युतिधवलगुणैः साधुशस्यैर्विशाला। . धर्मानुष्ठाननिष्ठाविधिवशविकसत्कीर्तिसंभारसारा ।
प्राज्यस्फूजद्विवेकप्रतिहतविततोद्दामदुर्वारमारा ।। ५ ।। इतश्च--
संजातोऽत्रैव वंशे निरुपममहिमाभाग्यसौभाग्यभूमि
श्रीपालष्ठक्कुरायः प्रथितशुचियशाः- पालितप्राज्यनीतिः । दिव्यश्रीकेलिगेहं समजनि परमं मंडनं धामलक्ष्म्याः
• श्रीदेवी तस्य पत्नी विकृतकलुषतालोलताना सपत्नी ॥ ६ ॥ तयोः सुतः शोभनदेवनामा मुख्यो यशोदेव इति द्वितीयः ।। जातोऽभिजातो नृपमान्यतादिगुणैरशेषैर्भुवि सुप्रसिद्धः ॥ ७ ॥ तत्र शोभनदेवस्य ठक्कुरस्य गृहाद्व्वयम् । सहव-महणूसंज्ञं सोढूनामा सुता. पुनः ॥ ८ ॥
नाऊंकाया. पाणिग्रहणं कृतवानसौ यशोदेवः । * तत्रातिरत्नभूतेति रत्नदेवीति विदितेयम् ॥ ९ ॥ ... या सीतेव कलौ कलंकविकलप्रोल्लासिशीलोज्ज्वला . . धर्मानुष्ठितिनिष्ठया- त्रिभुवने प्राप्तप्रतिष्ठा हि या। . लब्धागण्यवरेण्यपुण्यनिवहा या चैत्यकृत्यादिभि
नास्थानपुरादिधार्मिकसभाप्रख्यातनामा च या ॥ १० ॥