________________
235
Šāntınātha Jain Bhandara Camboy आदिः
वीरं प्रणम्य सर्वज्ञं तत्त्वार्थस्य विधीयते ।
टीका संक्षेपतः स्पष्टा मंदबुद्धिविबोधिनी ॥ १॥
सम्यगर्हत्प्रवचनमधिगम्य कालसंहननश्रद्धावपुरादेः परिहाणिमवलोक्य सस्वानुकंपया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह
सम्यदर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । .......
दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ॥ अंत:
तत्रोक्तं सोऽव्यावाधसुलक्षणमनंतमनुपमं परमार्थ मोक्षमचिरेण प्राप्स्मतीति ॥ छ ।। आसीदिन्नगणी क्षमाश्रमणता प्राप क्रमेणैव यो
विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् । वोढा शीलभरस्य सच्छूतनिधिर्मोमार्थिनामग्रणी.
जज्वालामलमुच्चकैर्निजतपस्तेजोमिरव्याहतम् ॥ १ ॥ यत्र स्थित प्रवचनं पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगणसंप्रदेयं जिनेन्द्रवक्त्राद्विनिष्क्रान्तम् ॥ २ ॥ तस्माऽभूत् परवादिनिर्जयपटु सैहीं दधच्छूरता
नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलागिमः । शिप्यः शिष्टजनप्रिय प्रियहितव्याहारचेष्टाश्रयाद्
भव्यानां शरणं भवौघपतनक्लेशार्दिताना भुमि ॥ ३ ॥ निर्द्धततम.संहतिरखंडमंडलशशाकसच्छाया । ' अद्यापि यस्य कीर्तिमति दिगंतानविश्राता ।। ४ ।। शिप्यस्तस्य बभूव राजकशिरोरत्नप्रभाजालक
व्यासंगच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः । भास्वामीति विजित्य नाम जगृहे यस्तेजसां संपदा
भास्वंतं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसर ॥ ५ ॥ क्षमया युक्तोऽतुलया समस्तशास्त्रार्थविन्महाश्रमणः । गच्छाधिपगुणयोगाद्गणाधिपत्य चकाराय॑म् ॥ ६ ॥ तत्पादरजोऽवयव स्वल्पागमशेमुपीकबहुजाड्यः । तत्त्वार्थशास्त्रटीकामिमा न्यधात् सिद्धसेनगृणिः ॥ ७ ॥