SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 234 Catalogue of Palm-Leaf Mss. in the विशेषतश्च नत्वाऽऽत्मगुरूणां पदपंकजम् । वृत्तिं जीवसमासस्य वीतविन्नः प्रवच्म्यहम् ॥ ४ ॥ तत्र चायुर्वलमेधादिभिरपचीयमानान् साम्प्रतकालीनजंतून् समवलोक्य तदनुग्रहार्थमन्यत्र विस्तराभिहितान् जीवगुणस्थानादिकान् भावान् संक्षिप्य प्रतिपादयितुं जीवसमाससंज्ञितं प्रकरणं चिकीर्षुराचार्यों निःशेषप्रत्यूहोपशमाय मङ्गलगी प्रेक्षावत्प्रवृत्त्यर्थ सम्बंधाभिधेयप्रयोजनगां च गाथामाह-- दस चोद्दस य जिणवरे चोदसगुणजाणए नमंसित्ता । चोद्दसजीवसमासे समासओऽणुक्कमिस्सामि ।। अंतः एकैकस्यापि प्रदेशस्यानुगतव्यावृत्तानन्तपर्यायात्मकत्वादिति गाथार्थः ॥छ । २८७॥ तदेवमन्या अपि प्रक्षेपगाथाः सिद्धान्तानुसारेण व्याख्येयाः। जीवसमासवृत्तिः समाप्ता ॥ * ॥ यद् वृत्ताविह वस्तु प्रायस्तत् समयसागराल्लिखितम् ।। मन्मतिदोषाद् दुष्टं तथापि शोध्य बुधै. सर्वम् ।। जीवसमासस्यैतां वृत्तिं कृत्वा मयाऽऽपि यत् पुण्यम् । जीवादितत्त्वमधिगम्य तेन शिवमाप्नुवन्तु जनाः॥ श्रीप्रभवाहनकुलाम्बुनिधिप्रसूत. क्षोणीतलप्रथितकीर्तिरुदीर्णशाख ।। विश्वप्रसाधितविकल्पितवस्तुरुच्चैः० ॥ १ ॥ इत्यादि [ क्रमाक ३९] श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १० ॥ प्रत्यक्षरगणनया चात्र सर्वग्रन्थाग्रमनुष्टुभां षट् सहस्राणि पट् शताधिकानि सप्ताविंशति. श्लोकाः ॥ ॥ अंकतोऽपि ६६२७ ॥ छ । संवत् ११६५ चैत्र शुदि ५ सोमेऽयेह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरश्रीमज्जयसिंहदेवकल्याणविजयराज्ये एवं काले प्रवर्त्तमाने यमनियमस्वाध्यायध्यानानुष्ठानरतपरमनैष्ठिक पण्डित श्वेताम्बराचार्य भट्टारक श्रीहेमचन्द्राचार्येण पुस्तिका लि. लि ॥ No. 143 (1) Folios - 340 Language - Sanskrit Author -Siddhasenasurn Age of MS. - V.S 1445 Tattvārthădlugamaśāstravrtti (1) तत्वार्थाधिगमशानवृत्ति Extent-Granthas 18282 . Size - 33.7 X 2.2 inches Condition - Fair
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy