________________
Śārtınātha Jain Bhiandāra Cambay
403 शब्दादीयस् नैकस्वरस्येति निषेधात् –त्यस्वरादेरिति नात्यस्वरोदेर्लोप । अवर्णेवर्णस्येत्यपि न । त्यस्वरादेरनेकस्वरस्येति एकसूत्राकरणात् । शब्दानुशासनमित्यत्र कथं कृतीति पष्ठीसमासः । तृतीयायामिति निषेधात् । सत्यम् । प्रत्यासत्तिन्यायेन यं कृतं अपेक्ष्य षष्ठी तमेव कृतमपेक्ष्य यदि तृतीया स्यात्तदा आचार्यहेमचंद्रेणेति तृतीयासद्भावात् आश्चर्यो गवा दोहोऽगोपालकेनेतिवत् पष्ठीसमासनिषेधः स्यात् । अत्र तु प्रकाश्यत इत्यपेक्षया तृतीया । अनुशासन इत्यपेक्षया तु पष्ठीति न समासनिपेधः । आचर्यते सेव्यते विनयार्थ विद्याग्रहणार्थ वा शिष्यैरिति घ्यण् १ । आचारे साधुरिति तत्र साधौ य. २ । आचारान् यातीति क्वचित् दुः ३। आचारानाचष्ट इति णिज् बहुलं नारतीति णिजि आचारयतीति शिक्यस्योद्येति सो निपात्यते ४ । आचारान् गृह्णाति ग्राहयति वा पृषोदरादित्वात् साधुः ५। किमपि चिनोतीति विवप् १ । किम. सर्वविभक्तयंतात् चिञ्चनाविति वा २ । किचिदित्यखंडमव्ययं वा ३ । अत्र सर्वपापंढत्वात् व्याकरणस्य परमात्मानमित्यनेनानिर्दिष्टनाम्ना सामान्येन देवताया निर्देश कृतः । सर्वैरपि हि स्वकीयः २ देवता परमात्मेत्युच्यते । नमस्कार्यश्च स एव भवति यस्य पूजातिशयवचनातिशयज्ञानातिशयाऽपायापगमातिशयलक्षणमतिगयचतुष्टयं भवति । तत्र परमात्मानमित्यनेन पृजातिगय. प्रकाशितः । अत एव सन्महत्परमेत्यनेन पूजाया समासः । अन्तः
कडारा । जैमनि कडार इति । जेमतीति विच् जेमामिनः जेमिनः यद्वा जिमेर्विपिनाजिनाढय इतीने जिमिनस्तस्यापत्य ऋपित्वेऽपि वाहादेराकृतिगणत्वादिनि । जैमिनिः । गड्डलगालव इति । गडुरस्यास्ति सिध्मादि० लगडोरपत्यं ऋप्यण्० ऋफिडादित्वाल्ल ॥ छ ॥ धर्मार्था विपूयविनीयजित्या इति । यादृश एव गणे दृष्टस्तादृश एव प्रयोग न तु विनीयविपूयजित्यादयः । जित्याशब्दस्यैव पूर्वपरभाव ॥ छ । लध्वक्षरा । अक्षरगव्देन स्वरोऽभिधीयते । शरशीर्पमिति पाठ । गरशीर्पमिति तु पाठे 'प्राणित्तयेति स्वैरभावात् समाहाराप्राप्तिः। श्रद्धामेधे इति । अर्थग्राहिणी श्रद्धा शन्डग्राहिणी मेधा श्रद्धामूलत्वादभिप्रेतार्थसिद्धेरर्च्यत्वं । दीक्षा तपसीत्यादिपु दीक्षाश्रद्धामेधाना बहूपकारकत्वान्मूलभूतत्वाच्चार्चितत्वात् परत्वात् पूर्वनिपातः। मातापितराविति । अनुभूतग दिक्लेशत्वात् पितृतो माताऽभ्यर्हिता। एवं स्त्रीप्रधानत्वाद्विवाहस्य वराद्वधूरिति । एकस्यैव. यथाप्राप्तमिति । दुंदुभिशब्दादिदंतात् परत्वादल्पस्वरत्वात् शखवीणाशब्दयोर्युगपत् पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपात । शेषाणा विति । शखवीणाशब्दयोः अश्वइंद्रशब्दयोरेव युगपत् पूर्वनिपातप्राप्तौ