________________
331
śāntinātha Jain Bhandara Cambay
श्रीदेवानन्दशिष्यः श्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नश्चिरं नंद्यात् ग्रंथस्यास्य विशुद्धिकृत् ॥ १७ ॥ लक्ष्यं क्षामत्वलक्ष्मभ्या गोस्तनीरजनीशयोः । सारं विरिंचिना हृत्वा कृताः सन्तो जयन्तु ते ॥ १८ ॥ मैत्रीपात्रं मनो येपा मुधाकृतसुधा गिरः । कायः परोपकाराय तेभ्यः सद्भयो नमो नमः ॥ १९ ॥ वस्तु सद्वस्तुसंसर्गान्निर्गुणं लभते गुणम् । पंगुरप्यर्कसंपर्कादरुणः किं न वर्ण्यते ॥ २० ॥ अद्भुतप्रतिभाभूत्या मृजन्तः काव्यदर्पणम् । न ये स्वहस्तमालिन्यं गणयन्ति जयन्ति ते ॥ २१ ।। न निन्द्य. सोऽपि निःस्नेहः कठिनः कश्मलः कटुः । गोमण्डलोपकारेण खलो गोरसवृद्धिकृत् ।। २२ ॥ तावन्न काव्यरत्नस्य भवेत्तेजोऽधिकाधिकम् । यावद् द्विजिह्वजिह्वाग्रशाणाया नैव घृष्यते ।। २३ ॥ ज्वल्यमानं खलज्वालाजिह्वज्वालाभजिह्वया । सकर्णकर्णाभरणं काव्यहेम भवत्यहो ।। २४ ॥ परोपकारणं धर्मोऽर्थस्तु सत्कर्मकौशलम् । अर्थसार्थकता कामो मोक्षस्त्वेतेषु सत्तमः ।। २५ ।। पुरुषार्थान् यथायोगं पुरुषो योजयन्निमान् । उपायानिव सामादीन् राजते राजसन्निभः ॥ २६ ॥ मध्ये चतुर्णामेतेषा यस्यैकोऽपि न विद्यते । मर्त्यमूर्तिधरः स्पष्टं स्पष्टगोः पशुरेव स. ॥ २७ ॥ अथ चैतेषु सर्वेषु धर्म. स्वर्गापवर्गदः । यदाराधनतः सर्वा संपत्तिः पत्तिता भजेत् ॥ २८ ॥ स चानेकविधः सप्तक्षेत्रवित्तव्ययादिभिः । परं विज्ञायते सर्व सिद्धान्तश्रवणाग्रहात् ॥ २९ ॥