SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 330 Catalogue of Palm-Leaf Mss. in the व्याख्यासु पान्तु श्रीनेमेतद्युतिजुषस्त्विषः । नमन्मूर्द्ध विभ्रत्योऽक्षतदूर्वाक्षतश्रियम् ॥ ४ ॥ श्रीमत्पार्श्वः प्रभुः सप्ततत्त्वकोटीश्वरः श्रिये । उर्ध्वकृता ध्वजा यस्य फणव्याजाच्चकासति ॥ ५ ॥ यो बाल्ये मेरुवंशाग्रेऽनर्तयत्कीर्त्तिनर्तकीम् । तं श्रीवीरं तपःश्रीणा नाट्याचार्यमुपास्महे || ६ || ब्रह्मगुप्तिसनाथस्य यतिधर्मस्य मूर्तयः । एकोनविंशतिः सन्तु तेऽजिताद्या जिना मुदे || ७ ॥ एकमपि त्रिरूपां यो जगत्रितयगोचरे । चारयामास जैनीं गा गौतमः स तमश्छिदे ॥ ८ ॥ श्रीसुधर्मा सुधर्मश्रीवरवंशसमुद्भवः । तरो महातरारातिपातने तनुता मम ॥ ९ ॥ चतुर्दशमितापूर्वपूर्वरत्नकुलाश्रयः । विश्वरूपं दधन्मध्येश्रुतवाद्धिं प्रवर्द्धताम् ॥ १० ॥ चतुर्दशशतग्रंथग्रथनायासलालसम् । हारिभद्रं वचो हारि भद्रं भद्र करोतु न ॥ ११ ॥ वादविद्यावतोऽद्यापि लेखशालामनुज्झता । देवसूरिप्रभोः साम्यं कथं स्याद्देवसूरिणा ॥ १२ ॥ वन्दे श्रीदेवचन्द्रं त यत्कृतं प्राकृतं बृहत् । श्री शान्तिवृत्तं संक्षिप्य संस्कृतं क्रियते मया ॥ १३ ॥ अमान महिमानं कस्तस्य स्तोतुं गणेशितुः । शिष्यो यस्योदितो हेमचन्द्रसूरिर्जगद्गुरुः ॥ १४ ॥ - नृपतिप्रतिबोधिन्या यद्विरासुधयाऽमराः । 꼬 जज्ञिरे पशवोऽपि श्रीहेमचन्द्रं महेम तम् ॥ १५ ॥ श्रीदेवानंदसूरिभ्यो नमस्तेभ्यः प्रकाशितम् । सिद्धसारस्वताख्यं यैर्निजं शब्दानुशासनम् ॥ १६ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy