SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 296 Calaloyle of Palm-Leaf Mss in the — कर्त्तव्यं जिनपुंगवस्य महनं स्तोत्रैश्च तत्संस्तव. सेव्यः साधुजनः प्रसन्नवदनैः श्रव्यं जिनेंद्रोदितम् । चिंत्या द्वादश भावना निजहिते कार्यः प्रयत्नो महान् । शक्त्या चान्यहिते भवाब्धितरणप्रत्युद्यतैः प्राणिभिः ॥ १८ ॥ मोहादिद्विपकुमभेदनविधौ येषां सदा पौरुष ___ कामित्वं कमनीयमुक्तिललनापीनस्तनस्पर्शने । न्यायोपात्तधनं गतं जिनमतक्षेत्रेषु सप्तस्वहो तेषां पौरुषकामिता विभविता मन्ये कृतार्था भुवि ।। १९ ॥ रम्ये श्रीजिनपुंगवस्य सदने विवे तदीयेऽनघे ___ संघे श्लाध्यतमे प्रशस्तचरिते पूज्ये चतुर्वर्णके । सर्वज्ञागमलेखने विनिहितं चित्तं भवेदिष्टद ___ सत्क्षेत्रे विधिनोप्तमिष्टसमये शाल्यादिवीजं यथा ॥ २० ॥ ये कृत्वा जिनमंदिराणि विधिना संपूज्य वस्त्रादिभिः श्रीसंघ समुपात्तनीतिविभवाः श्रद्धापरा. श्रावकाः । स्याद्वादप्रतिबद्धवाक्यजनकश्रीवीररागेण यद् निर्नीतं किल लेखयंति भविन. कि किं न तै. सत्कृतम् ॥ २१ ॥ श्रुत्वा पुस्तकवाचनामनुदिनं गृह्णन्ति केचिद् व्रतं देवाधीशजिनेंद्रपूजनपराः श्राद्धा भवेयु परे । अन्ये भद्रकभावभावितमन सद्धर्मयोग्या नरा जायते खलु यस्य पुस्तकमिदं हेतु स तच्छ्रेयस ॥ २२ ॥ इत्याकर्ण्य जिनप्रणीतमनघं धर्म गुरुभ्यस्तत . ___ पर्यालोच्य कुटुबकेन गुणिना नागेन्द्रनामा गृही। सिद्धाख्येन कृतां कथामुपमिति सिद्धातसारोद्धता तोषादेव सुधीZलीलिखदिमां स्वश्रेयसे पुस्तके ॥ २३ ॥ ___ यावन्मेरु. प्रतपति रविोतते यावदिन्दु. विद्वायुः स्फुरति गगने तारका संति यावत् ।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy