________________
Santinatha Jam Bhanḍāra Cambay
तद्यथा
295
लक्ष्मीपतिः सुतनयोऽजनि यक्षदेवः श्रीराजिनिनयनसम्मद आम्रदेवः । धाधमिनोभवनदीपकचांदिगाख्यस्तुओं यशोमतिवधूप्रियपुंडरीकः ॥ ७ ॥
चतुर्भिरेभिर्जिनधर्मलीनैर्विभावितागाधभवाब्धिभावैः । व्यधायि धंधाणकसन्निवेशे शरण्यचंद्रप्रभदेवहर्म्यम् ॥ ८ ॥ प्रत्याख्यानं येन कृत्वौदनादे. पट्ट्या निर्गत्योज्जयंते नगेन्द्रे | श्रीमन्नेमिर्वदितः पूजितश्च क्षिप्रं भूयाद्यक्षदेवः स सौख्यी ॥ ९ ॥ यक्षदेवस्य तस्योद्यमी जातवान् चारुपुत्रः प्रियः शांतनामादिमः । धर्मकर्मा सुशीलाssम्रदत्ताभिधः क्रोधकोपाजितः कामरूपोऽर्जितः ॥ १० ॥ धर्मार्थादिचतुःप्रकारपुरुषस्वार्थोद्यतस्यान्यदा
द्वौ द्वौ सुंदरभार्ययोर्वरसुतौ श्राद्धाऽऽम्रदेवस्य तौ ।
संजातौ कुलजश्रियः सुसरलौ पार्श्वख्यमृणागको
राजिन्या बुधलक्ष्मणो गुणनिधिर्नागेन्द्रनामाऽनघः ॥ ११ ॥ सन्नेमिचन्द्रगुणमंदिरदेवचंद्रसूनुद्वयं व्यजनि चांदिगनामधेयः । प्रद्युम्न - शंबकृतनामकमुज्ज्वलागं सत्पुंडरीकसुधियाऽजनि पुत्रयुग्मम् ॥ १२ ॥ नागेंद्रः शुभधर्मकर्मनिरत. सन्मोहिनी भार्यया
पद्मावत्यभिधानया सरलया स्वस्त्रीयया संयुतः ।
चाहिन्या सुतया सुतेन गुणिना सुश्रीकुमारेण वै
शांतापत्ययशः प्रियानघयशोदेवेन धर्मार्थिना ॥ १३ ॥ अथान्यदा दानतपोविधानसुभावनाशीलसनाथधर्मे 1 जिनप्रणीते विदधन् प्रयत्न शृणोति धर्म्यं वचनं गुरुभ्यः ॥ १४ ॥
निरवधिभववार्द्धे कर्मदोपाद् भ्रमंत. प्रवरशरणहीना योनिलक्षेषु जीवाः । कथमपि तुटियोगान्मानुषं जन्मरत्नं सकलगुणविशिष्टं कष्टलक्षैर्लभते ॥ १५ ॥ प्राप्य तत्प्राणिभिः प्रार्थितार्थप्रदं प्रेरणा प्रोद्यतप्राजलप्रेरितै । प्रत्यहश्चितयित्वा धनाद्यस्थिरं कर्तुमेवोचित चारु जैनं वच. ॥ १६ ॥ . प्राणातिपातविरतिप्रमुखानि यानि जैनागमे निगदितानि महात्रतानि । तानि क्षमा यदि न कर्तुमशक्तियोगाद्ययं कुरुध्वममलं गृहिधर्ममेनम् ॥ १७ ॥