SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ २०८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (३यः पादः) १८श विशेषनियमाच न बाधकत्वम् । तेन नि-भ-ब-भाष्येषु अधिकरणस्य अनारम्भात् दोष. । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमातिश्च संगतैव । एकादशम् अनारब्धाधिकरणम् ।। अत्र "अनारब्धकार्थे एव तु पूर्व तदवधेः"४।१।१५ (४९२) इति सूत्रस्य "अनारब्ध"पदात् अस्य "अनारब्धाधिकरण" नाम । तत्र श-भा-रा-श्री-श्रीप-भाष्येषु एतेन एकेन सूत्रेण एतदधिकरणं रचितम् । नि-म-व-भाष्येषु अधिकरणं न आरब्धम् । तत्र श-भा-श्री-भाष्येषु एकादशम् अधिकरणम्, रामानुजभाष्ये नवमम्, श्रीपतिभाष्ये अष्टमम् अधिकरणम् । निम्बार्कभाष्ये सूत्रत्रयात्मक-तदीयषष्ठाधिकरणस्य तृतीयसूत्रम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाटमाधिकरणस्य तृतीय सूत्रम् , वल्लभभाष्ये तु सूत्रचतुष्टयात्मकतदीयषष्ठाधिकरणस्य तृतीयं सूत्रम् । अत्र "अनारब्ध-काय” इति प्रथमान्तपदात् ४र्थ सामान्यनियमात् । अत्र अधिकरणारम्भः युज्यते एव । “तु-शब्द अनुक्तपूर्वपक्षे तन्निवृत्त्यर्थम् , अतः न बाधकम्, १८श विशेषनियमात् । नि-म-व-भाष्येषु अधिकरणस्य अरचनाया दोषः वक्तव्यः । परसूत्रे अधिकसमित्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिश्च समुचितैव । छादशम् अग्निहोत्रायधिकरणम् । अत्र “अग्निहोत्रादि तु कार्यायैव तदर्शनात्" ४।१।१६ (४९३) इति सूत्रस्य "अग्निहोत्रादि"-पदात् अस्य "अग्निहोत्रायधिकरण" नाम । तत्र श-भा-रा-नि-श्री-श्रीप-भाष्येषु अधिकरणम् आरब्धम् , म-व-भाष्ययो. न आरब्धम् । तत्र श-भा-भाष्ययोः सूत्रद्वयं गृहीतम्, रामानुज-श्रीकण्ठ-श्रीपति-भाष्येषु सूत्रत्रय, निम्बार्कभाष्ये एतदेव एक सूत्रं गृहीतम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाष्टमाधिकरणस्य चतुर्थ सूत्रम् । वल्लभ-भाष्ये तु सूत्रचतुश्यात्मकतदीयप४ाधिकरणस्य चतुर्थ सूत्रम् । तच्च सूत्रद्वयम् १। "अग्निहोत्रादि तु तत्काथ्र्यायैव तदर्शनात्” ४।१।१६ (४९३) २। “अतोऽन्यापि ोकेषामुभयो.” ४।१।१७ (४९४) तत्र ( १ ) अमिहोत्रादि तु तत्कायैव तदर्शनात्' ४।१।१६७ (४९३) इत्यत्र 'अमिहोत्रादि' इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्व युक्तम् । ४र्थ सामान्यनियमात् । 'तु' द न वाधकम् , अनुक्तपूर्वपक्षव्याकर्तकत्वात् तस्य, १८श विशेषनियमात् । म-व--भाप्ययोः अधिकरणस्य अनारम्भात् दोष । (२ ) 'अतोऽन्यापि टेकेपामुभयो.' ४।१।१७ (४९४) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्व सगतम्। ४र्थ सामान्यनियमात्, अपि-हि-अतः-पदाना साकाक्षरयात्, ६ष्ठ विशेपनियमात् ७म विशेपनियमात् च, नि-व-भाप्ययो. अधिकरणस्य रचनाया दोप । परसूत्रे अधिकरणार मात् अत्रैव समाप्ति कल्पनीया ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy