________________
२०६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः )
षष्ठम् आसीनाधिकरणम् । अत्र “आसीनः सम्भवात्” ४।१।७ ( ४८४ ) इति सूत्रस्य “आसीनः" इति पदात् "आसीनाधिकरण नाम । तत्र वल्लभभाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणारम्भ कृतः । शङ्कर-भास्करश्रीकण्ठ-भाव्येषु एतत् सूत्रं सूत्रचतुष्टयात्मक-तदीयषष्ठाधिकरणस्य प्रथम सूत्रम् । रामानुज-भाष्ये तु एतत् सूत्रं सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् । निम्बार्क-श्रीपति-भाष्ययोः सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् । माध्वभाष्ये सूत्रपञ्चकात्मकतदीयपठाधिकरणस्य प्रथमं सूत्रम् । वल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य पञ्चसु सूत्रेषु एतद्धि द्वितीयं सूत्रम् । तानि चत्वारि सूत्राणि
१ । आसीन' सम्भवात् ४।१७ (४८४) ३ । अचलत्वं चापेक्ष्य ४।१।९ (४८६) २। ध्यानाच ४११८ (४८५) ४ । स्मरन्ति च ४।१।१० (४८७)
अत्र (१) आसीनः सम्भवात् ४।१।७ (१७८) इत्यत्र "आसीन.” इति प्रथमान्तपदस्य सत्त्वात् अस्य अधिकरणारम्भकत्वं युक्तमेव । ४र्थ सामान्यनियमात् । वल्लभभाष्ये अधिकरणस्य अरचनाया दोषः ।
(२) ध्यानाच ४।१।८ (४८५) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, च-कारस्य विधेया-तरज्ञापकत्वात् , ६ष्ठ विशेषनियमाच्च ।
(३ ) अचलत्वं चापेक्ष्य ४।१।९ (४८६) इत्यत्र अचलत्वम् इति द्वितीया-तपदात च-कारयोगात् च नास्य अधिकरणरिम्भकत्वम् । ४थं सामान्यनियमात् ६ष्ठ विशेषनियमाच ।
(४) स्मरन्ति च ४।१।१० (४८७) इत्यत्रापि प्रथमान्तपदाभावात् तथैव । ४र्थ सामान्यनियमात्, ६ष्ठ विशेषनियमाच । परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः संगतैव ।
सप्तमम् एकाग्रताधिकरणम् अत्र “यत्रैकाग्रता तत्राविशेषात्" ४।१।११ (४८८) इति सूत्रस्य "एकाग्रता"-पदात् अस्य “एकाग्रताधिकरण” नाम । तत्र श-भा-श्री-ब-भाव्येषु एतेन एकेनैव सूत्रेण एतदधिकरण रचितम् । श-भा-श्री-भाष्येषु सप्तमम् अधिकरणम् । वल्लभभाष्ये तु चतुर्थाधिकरणम् । रामानुजभाष्ये सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चमं सूत्रम् । निम्बामाप्ये तथा श्रीपतिभाष्ये सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चम सूत्रम् । माध्वभाष्ये सूत्र-पञ्चकात्मक-तदीयपठाधिकरणस्य पञ्चम सूत्रम् । तेन रा-नि-म-श्रीप-भाष्येषु अधिकरण न आरब्धम् ।
अत्र “एकाग्रता" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकरच युक्तम् । ४र्थ सामान्यनियमात् । रा-नि-म-श्रीप-भायेषु अधिकरणस्य अनारम्भात् दोपेण भवितव्यम् । परसूत्रे अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति. सगच्छते।।