SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४२ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ०० रचितः इति यद् उक्तं कैश्चित् पाश्चात्त्यैः तदनुवत्तिभिश्च तन्न यम् इति सिध्यति । भवतु पाणिनीय-कालम् अवलम्ब्य एतादृश फलम्, किन्तु यदि तदृक्तिम् आश्रित्य विचार्यते, तदा "पाराशरीयं भिक्षुसलम्" इति निर्देशाद् द्वापराते हो वा नीला रचना अभूत् इत्यत्र न कापि बाधा वर्तते । परन्तु तत्रापि बहुभि पाश्चात्त्यैः विद्वद्वि जनमेजयस्य महाभारतस्य च कालोऽपि न तादृशः प्राचीन इति मन्यते । किन्तु तथा गौतम बुद्धात पूर्वमेव ब्रह्मसूत्रं रचितम् इत्यत्र न विरोध कल्पनीय । जनमेजयमहामातादीना कालनिर्णयस्तु प्रसङ्गान्तरीय, अतोऽत्र ततो विरम्यते । अरमन्मते तयो काल कलेरा " | श्रीमद्भगवद्गीताप्रमाणेन प्राचीनत्वम् ततश्च अत्र अपरमेक प्रमाणमरित, येन ब्रह्मसूत्रस्य महाभारत समकालीनत्व सिम्यति । यतो भीष्मपर्वान्तर्गत-भगवद्गीतामध्ये ब्रह्मसूत्रस्य नाम दृश्यते, यथा "ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै ।" ( १३४ ) Q तथैव ब्रह्मसूत्रमध्ये "स्मृतेश्च" ११२२६ इति सूत्रे, तथा "स्मरन्ति च ४|१|१० इति सूत्रे, गीतावाक्यमेव सूत्रकृता लक्षितम् इत्यपि सूत्रभाण्यादिभ्य उपलम्यते । अतो ब्रह्मसूल महाभारत-समकालीनम् इति अनुमातु शक्यते अस्मन्मते | महाभारत रचनाकाल कलेराठी एव आसीत् । तेन ब्रह्मसूत्रम् अद्य प्रभृति प्रायेण पञ्चसहस्रवर्षेभ्य. प्राग् रचितम् इत्यस्माक निर्णय | परन्तु अत्रापि पाश्चात्त्याना विप्रतिपत्ति दृश्यते । तन्न अल वय विचारयाम तस्य प्रसङ्गान्त रीयत्वात् । एतदर्थ महाभारतस्य महामहोपाध्याय - श्रीहरिदास सिद्धा तथागीकृत टीकाद्रिक द्रष्टव्यम् । एवं च अस्मन्मते महाभारत - त्रह्मसूत्रादीनाम् अर्वाचीनत्वं प्रतिपिपादयिषता प्रयत्न सर्वथा व्यर्थः इति प्रतिभाति । येषा मते अद्य प्रभृति १९४१ वर्षेभ्य प्राक् पृथिव्या ज्ञानालोकपतिः सञ्जात, तेभ्य इतोऽधिकं किम् आशास्महे । तेन अल बौद्ध जैनादीना मतखण्डन दृष्ट्वा नास्य श्रुतिमीमासारूपत्वं व्याहत न वा तस्य अर्वाचीनत्व कल्पनीयम् । तथा च अम्य अन्थकर्ता पाराशर्य कृष्णद्वैपायनापरनाम चादरायणो, अन्धश्च कलेरादौ रचित इति । सूत्ररचनाया तृतीयं कौशलम् इदानीं द्रष्टव्य किमपरं कौशलं सुलरचनायाम् अवलम्बित सूत्रकृता भगवता व्यामेन ? एतच ग्रन्थ प्रतिपाद्यानुसारेण अध्याय- पादाधिकरण- सूत्राणाम् अर्थनियत्रणम् । एतदेव अल तृतीयं कौशलम् । यथा श्रुत्यर्थमीमासारूप - श्रुतिसङ्गतिसरक्षण सर्वेषाम् अध्याय-पादाधिकरणसूत्राणाम् एतद्ग्रन्थ-रचनाया' आद्यं मुख्य कौशलं, यच्च प्रागेव तथैव अध्याय-चतुष्टउक्तम्, यात्मकस्य एतद्ग्रन्थस्य समष्टिरूपेण यत् किञ्चित् प्रतिपाद्यमेक भवति, यतो व्यष्टिमृतम्य समष्टिरूपत्वमपि स्वाभाविकम् येन तादृश-प्रतिपाद्य विषयानुसारेण अध्याय-पादाधिकरण-मूत्राणाम् अर्थनियमनमपि समुचितम् । समष्टिभूतस्य यो धर्म तस्य व्यष्टिभूतधर्म-नियामकाय नैसर्गिकम् | 1
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy