SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १८२ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) संगच्छते । एतदर्थं चतुर्थसामान्यनियमः तथा षष्ठविशेषनियमश्च अत्र अनुसंध्येयौ । (४) " अतस्त्वितरज्ज्यायो लिगाच " ३ | ४ | ३९ (४६४ ) इत्यत्र " इतरत्" तथा "ज्यायः” इति प्रथमान्तपदद्वयसत्त्वेऽपि नास्य अधिकरणारम्भकत्वम् । “अत.” “चकार.” तथा “ इतरत् " इति शब्दत्रयेण साकाक्षत्वविधानात् षष्ठसप्तमविशेषनियमाभ्याम् । परसूत्रेण मध्व-भिन्नैः सर्वैः अधिकरणस्य आरम्भात् अत्रैव समाप्ति, सङ्गच्छते । दशमं तद्भूताधिकरणम् अत्र “तद्भूतस्य तु नातेद्मावो जैमिनेरपि नियमाद्रूपाभावेभ्य. " ३|४|४० (४६५) इति सूत्रस्य 'तद्भूतस्य" इति पदात् अस्य " तद्भूताधिकरण" नाम । अत्र माध्यमाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्धम् । तन्मते एतत् सूत्र तदीयपञ्चमाधिकरणस्य सप्तसु सूत्रेषु अन्तिमम् । शङ्कर-भाष्करभाष्ययो एतेन एकेन सूत्रेण दशमम् अधिकरणं रचितम् । रामानुजमते दशमाधिकरणस्य चतुर्षु सूत्रेषु प्रथमं सूत्रम्, निम्बार्कमते अष्टमाधिकरणस्य तथैव । श्रीकण्ठ-श्रीपति भाष्ययोः एकादशाधिकरणस्य तथैव । बल्लभभाष्ये चतुर्थाधिकरणस्य च तथैव । तेन माध्यमाध्ये अधिकरणस्य अरचनाया दोष । अत्र "अतद्भाव" इति प्रथमान्तपदात् चतुर्थसामान्यनियमात् अस्य अधिकरणारम्मकत्व युक्तम्। विषयान्तरज्ञापनेन तस्य स्वमतानुकूलजैमिनीयमतत्वात् न दोष, વામિવરોષनियमात् । अन्यप्रथमान्तपदेन अधिकरणस्य विधानात्, तथा तु-अपि-पदयो अबोधकत्वात् । द्वादशाष्टादश विशेषनियमाभ्याम् । एकादशम् आधिकारिकाधिकरणम् अत्र “न चाधिकारिकमपि पतनानुमानात् तदयोगात् " ३ | ४ | ३१ (४६६ ) इति सूत्रस्य “आधिकारिक" - पढात् अस्य “आधिकारिका धिकरण" नाम । तत्र शंकर - भास्कर-मध्व-बल्लम-भाष्येषु अधिकरणम् आरब्धम् । न तु शिष्टेषु तथा । एतदारम्य सूत्रद्वयेन एतदधिकरणम् आरब्धम् । शंकर-भाष्कर-भाष्ययो मध्ये माध्वभाष्ये च एतत् सूत्रं सूत्रत्रयात्मक - षष्ठाधिकरणस्य प्रथमं सूत्रम् । वल्लभभाष्ये तथैव सूत्रद्वयात्मक पञ्चमाधिकरणस्य प्रथमं सूत्रम् । रामानुजभाज्ये सूत्रचतुष्टयात्मक -दशमाधि करणस्य द्वितीय सूत्रम् । निम्बार्कभाष्ये सूत्रचतुष्टयात्मकाष्टमाधिकरणस्य द्वितीय सूत्रम् । श्रीकण्ठ- श्रीपति माप्ययो. सूत्रचतुष्टयात्मकैकादशाधिकरणस्य द्वितीयं सूत्रम् । तच्च सूत्रद्वयम् १। " न चाधिकारिकमपि पतनानुमानात् तद्योगात् " ३|४|४१ (४६६) २। “उपपूर्वमपि त्वेके भात्रमानवत् तदुक्तम्” ३|४|४१ (४६७) तंत्र ( १ ) “न चाधिकारिकमपि पतनानुमानात् तद्योगात् " ३ | ४ | ४१ (४६६ ) इत्यत्र "आधिकारिकम्" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वं युक्तम्, चतुर्थसामान्यनियमात् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy