SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः । च-कारेण विशेषणान्तरत्वविधानात् त्रयोदशविशेषनियमात् अधिकरणारम्भः सगच्छते। तेन निम्बार्कभाप्यस्यैव अधिकरणस्य अरचनाया दोपप्रसक्ति । परसूत्रे अधिकसमित्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति सगता। दादशं ज्ञाधिकरणम् अत्र "ज्ञोऽत एव" २।३।१८ ( २३४ ) इति सूत्रस्य "ज" इति पदात् अस्य "ज्ञाधिकरण” नाम । अत्र रामानुजभाष्य-भिन्नेषु सर्वेषु भाष्येषु एतद् एकमेव सूत्रं गृहीतम् । रामानुजभाप्ये तदीय-चतुर्थाधिकरणस्य चतुर्दशसु सूत्रेषु मध्ये एतत् तु प्रथमं सूत्रम् । तेन सर्वसम्मत्या अतैव अधिकरणाम समुचित भवति । ___अत्र "ज्ञः” इति प्रथमान्तपदात् अस्य अधिकरणामकत्व सङ्गच्छते । चतुर्थसामान्यनियमात् । परवतिसूत्रेग अधिकसंख्यकभाष्येषु पृथगधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिरपि युज्यते । माध्वभाष्ये अत परं "युक्तश्च” इति एकम् अतिरिक्त सूत्र पठितम् इति दृश्यते । तच तस्य द्वादशाधिकरणस्य अष्टसु सुत्रेषु-प्रथमं सूत्रम् । तेन तत्र अधिकरणस्य रचनाया तस्य एक अपर: दोष सजात । त्रयोदशम् उत्क्रान्तिगत्यधिकरणम् । ___ अत्र “उत्क्रान्तिगत्यागतीनाम्" २।३।१९ (२३५ ) इति सूत्रस्य "उत्क्रान्तिगति-" इति शब्दात् अस्य "उत्क्रान्तिगत्यधिकरण” नाम । अत्र शंकर-भास्कर-माप्य-द्वयमध्ये चतुर्दश सूत्राणि गृहीतानि । रामानुजभाष्ये तदीय-चतुर्थाधिकरणस्य चतुर्दशाना सूत्राणा मध्ये एतदेव द्वितीय सूत्रम् । पूर्वसूत्रेण अधिकरणस्य आरवधवात, नवमदशमसूत्रयस्य एकीकरणाच । निम्बार्कभाष्ये तु तदीय-चतुर्थाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतद्धि प्रथम सूत्रम् । अवापि नवम दशमं च सूत्रद्वयम् एकीकृतम् । मध्वभाष्ये तदीय-द्वादशाधिकरणस्य अष्टाना सूत्राणा मध्ये एतदेव द्वितीय सूत्रम् । तन्मते इत पूर्व “युक्तश्च” इति एकम् अधिकं सूत्र पठित, तेनैव अधिकरणस्य आरब्धत्वात् । नवम-शम-सूत्रद्वयस्य एकीकरणात् च श्रीकण्ठमाप्ये तदीयनवमाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतद्धि प्रथमं सूत्रम् । अत्रापि नवमं दशम च सूत्रद्वयम् एकीकृतम् । श्रीपतिभाप्ये च तदीय-द्वादशाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतच्च प्रथम सूत्रम् । अत्रापि नवम दशम च सूत्रद्वयम् एकीकृतम् । वल्लभभाप्ये तदीय-द्वादशाधिकरणस्य दाना सूत्राणा मध्ये एतच्च प्रथम सूत्रम् । अत्रापि नवमं दशमं च सूत्राद्वयम् एकीकृतम् । एवं च अधिकरणारम्भविषये रामानुज-मध्व-भिन्नेषु सर्वेषु भाप्येषु ऐकमत्य वर्तते । तेन रामानुजमध्व-भाप्यद्वयमेव अत्रा अधिकरणस्य अरचनाया दोषभाग भवति । नूनम् अत्र प्रथमान्तपदाभावात अधिकरण न आरभणीयम् । तत् कथ पर भाष्यकारा. अधिकरणरचनापक्षपातिन. जात!' ? अत्र उच्यते सूत्रम्य सम्बन्धबोधकषष्ठ्य-तत्वात् "स्वात्मना चोत्तरयो" इति परसूत्रस्थापि
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy