________________
१०
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः
सर्वैरेव भाष्यकारै' । अस्य सूत्रस्य "प्राण" शब्दात् एतस्य " प्राणाधिकरणं” नाम । ततश्च "प्राण" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वम् । चतुर्यसामान्यनियमानुसारेण । परसूत्रे अधिकरणारम्भात् अव अधिकरण- समाप्तिरपि संगच्छते । अत्रापि अधिकरणरचनायां न कस्यापि दोषः । दशम ज्योतिश्चरणाधिकरणम् १|१|१०
अत्र “ज्योतिश्चरणामिधानात् " ११११२४ इति सूत्रे " ज्योतिश्चरण" इति पढात् अस्य “ज्योतिश्चरणाधिकरणं” नाम । मध्वाचार्यमिन्नैः सर्वैः सप्तभिः आचार्यै अत्र चतुर्भिः सूत्रै अधिकरण रचितम् । मध्वाचार्यस्तु केवलं "ज्योतिश्चरणामिधानात्" इति एकेन सूत्रेण एकम् अधिकरणम्, अवशिष्टसूत्रत्रयेण च अपरम् एकम् अधिकरणं रचयामास । तानि च चत्वारि सूत्राणि यथा
१। ज्योतिश्चरणाभिधानात् १|१|२४
२। छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् १ ११२५
३। भूतादिपादव्यपदेशोपपत्तेश्चैवम् १|१|२६
४| उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ११११२७
अत्र ( १ ) “ज्योतिश्चरणाभिधानात् " १|१|२४ इति सूत्रे “ज्योति” इति प्रथमान्तपदात् अनेन अधिकारणारम्भ. चतुर्थसामान्यनियमानुगत एव ।
( २ ) “छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम्” १|१|२५ अत्र दर्शनम् इति प्रथमान्तपदसत्त्वेऽपि " इति चेन्न" इति पदात् नास्य अधिकरणारम्मकत्वम् । एतदर्थं पञ्चमविशेषनियमो द्रष्टव्य । मध्वाचार्येण अत्र अधिकरणरचनात् तस्यैव दोष, बहुमतविरोधात् चतुर्थसामान्यनियमविरोधाच्च ।
( ३ ) “भूतादिपादव्यपदेशोपपत्तेश्चैवम्" ११११२६ अत्र प्रथमान्तपदामावात् नास्य अधिकरणारम्भकत्वम्। “एवम्" इति न प्रथमान्त, किन्तु द्वितीयान्तमेव । प्रथमान्तस्य અધ્યાત્ત્તતત્ત્વવિ નઝારેળ સાાક્ષત્વાત્ તન્નિષેધ, પવિરોધિનયમાત્ તિ ।
( ४ ) “ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ११११२७ इत्यत्र “इति चेन्न " इति पदात् नास्य अधिकारणारम्भकत्वम्, पञ्चमविशेषनियमो द्रष्टव्यः । एव च अस्मिन् अधिकरणे मध्वभाज्यमेव दूषणीयम् । परसूत्रे अधिकरणारम्मात् अत्रैव अधिकरणसमाप्ति सुसगतेति बोद्धव्यम् । एकादशं प्रतदर्नाधिकरणम् १११११११
अत्र अधिकरणविषयश्रुतिप्रसंगानुसरेण “प्रतर्दनाधिकरणम्” इति अधिकरणनाम | सूत्रपदानुसारेण नामकरणे कृते अस्यापि "प्राणाधिकरणम्” नाम भवितुम् उचितम् । परन्तु नवमम् अधिकरणं तन्नान्ना प्रसिद्धि गतं प्रागेव, अत' अत्र अन्य पन्था अवलम्बित । तेन