________________
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (३) “ततव्यपदेशाच” १।१।१४ अस्य प्रथमान्तपदाभावात् नाविकरणाम्भकत्वम् । च-कारात् अध्याहारे कृतेऽपि “तत्"-२०देन साकाक्षत्वात् न तस्य विभिन्नविधेययोधकत्वम् । अतो नास्थापि अधिकरणारम्मकत्वम् । चतुर्थसामान्य नियम. तथा पष्ठविशेषनियमोऽत्र द्रष्टव्यः ।
( ४ ) “मा-वणिकमेव च गीयते १।१।१५ अत्र “मान्त्रवर्णिकम्” इति पदस्य प्रथमान्तत्वेऽपि उद्देश्यविधेयामेदाद् अस्य नाधिकरणामकत्वम् इति । सर्वपु भाष्येषु एवमेव दृश्यते । न च च-कारस्य समुच्चायकार्यकत्वात् उद्देश्यविवेययोः मध्ये अनुक्तसन्निवेश शंक्या, तत्य हेतुसमुचायकार्थकत्वात् । अतः अत्र कस्यचित् विशपनियमस्य प्रयोजनं, येन एताशस्थले सूत्राणाम् आकारमानदर्शनेन तेषाम् अधिकरणारम्भकत्वं वार्यत । स च नियमः इत्यम् भवेत् "चकरादिपदयोगात् अध्याहृतस्य अनध्याहृतस्य वा प्रथमान्तपदस्य सापेक्षत्वे सिद्धे नाधिकरणारम्भकत्वम्" इति। एतेन अत्र प्रथमान्तपदसत्त्वेऽपि अस्य अधिकरणारम्भकत्व व्याहतम् । अथ तु चतुर्थसामान्यनियमस्य प्रतिप्रसवः । इति षष्ठ. विशेष नियम. ।
(५) “नेतरोऽनुपपत्तेः” १।१।१६ अत्र “इतरः” इति प्रथमान्तपदसत्पात् अस्य अधिकरणामकरवं युक्त, तथापि "इतर"-शब्दस्य स्वरूपत ५५ सापेक्षत्वार्यकत्वात् तन्न युक्तम् । एतेन चतुर्थसामान्यमियमोक्तनिरपेक्षत्वार्थस्य व्याधातो भवति । श्रीकण्ठाचार्यस्तु एतेन पृथग् अधिकरणं रचयाचकार । तन्न सम्यक् । अधिकसम्मतेरमावात् , "इतर"-दस्य सापेक्षत्ववोधकरन युक्तयननुकूलत्वाच । तथा च अपर एको नियमोऽत्र आवश्यकः । यथा-"इतरादिशब्दवत् स्वरूपत. सापेक्षत्वार्थकप्रथमान्तपदस्य न अधिकरणार मकरवम्” इति । अयमपि चतुर्थसामान्यनियमस्य प्रतिप्रसव । इति सप्तमः विशेष. नियमः ।
(६) “भेदव्यपदेशाच” १।१।१७. अत्र प्रथमान्तपदामापात् नास्य अधिकरणारम्भकत्वम् । प्रथमान्तपदाध्याहारे कृतेऽपि च-कारात् साकाक्षत्वविधानात् तथैव चतुर्थसामान्यनियमात् षष्ठविशेषनियमाच्च न तत्।
(७) “कामाच नानुमानापेक्षा" १।१।१८ अत्र “अनुमानापेक्षा” इति प्रथमान्तपदसत्त्वेऽपि नास्य पृथग अधिकरणार मकरवम्, एतच्च सर्वसम्मतमेव । “कामाच्च” इत्यत्र 'च'-शब्दयोगात् साकाक्षत्वविधानात् तन्निषेध, षष्ठविशेषनियमाच ।
(८) "अस्मिन्नस्य च तद्योग शास्ति' - २।२।१९ अत्र प्रथमान्तपदाभावात् न पृथगधिकरणारम्भः । च-कारात् तदध्याहारेऽपि साकाक्षत्वात् तनिषेध । १४विशेषनियमात् । परसूत्रे पृथग् अधिकरणार-मणात् अत्रैव अधिकरणसमाप्तिश्च सुसंगता इति ।
शाकरमाप्य अत्रापि वर्णकद्वयं दृश्यते । तत्र शाकरमाव्यटीकात. अवगम्यते-वृत्तिकारमतमेव प्रथमवर्णके एकदेशिमतत्वेन विवृतम् । स्वमतं च द्वितीये पर्णितम् इति ।