________________
प्रथम अध्याय
वहुत से रहस्यो का उद्घाटन न होने पर ईश्वर के स्थान पर काल का ग्रहण शास्त्र कारो ने किया है 'कालो हि भगवान् स्वयभू' 'कालो हि सर्वभताना विपरिणामहेतु' 'कालयतीति सर्वेपा परिणाम नयतीति काल ।' . 'ससक्ष्मामपि कला न लीयत इति काल ।' 'कलनात् सर्वभूतानामिति काल ।' इत्यादि काल शब्द की व्याख्याये पाई जाती है। काल की महत्ता बतलाते हुए आचार्यों ने लिखा है कि यह काल सम्पूर्ण जगत का जन्य एव जनक कारण है
कालः सृजति भूतानि कालः सहरते प्रजाः। कालः सुप्तेषु जागर्ति तस्मात् कालस्तु कारणम् ।। न सोरित प्रत्ययो लोके यत्र कालो न भासते । कलनः सर्वभूताना स कालः परिकीर्तितः ।।
जन्याना जनक काल । (श्रुति ) कालकारित परिमाणो को लक्ष्य करके महाभारत मे कहा गया है :
न कर्मणा लभ्यते चेज्यया च नाप्यस्ति दाता पुरुपस्य कश्चित् । पर्याययोगाद् विहितं विधात्रा कालेन सर्व लभते मनुष्यः॥ न बुद्धिशास्त्राध्ययनेन शक्य प्राप्तं विशेपं मनुजैरकालम् । मूोपि चाप्नोति कदाचिदर्थान् कालो हि कार्य प्रति निर्विशेपः ।। नाभूतिकालेषु फलं ददान्ति शिल्पानि मंत्राश्च तथौपधानि । तान्येव काले तु समाहितानि सिद्धयन्ति वर्धन्ति च भूतिकाले । कालेन शीताः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुमैति । कालेन पद्मोत्पलक्जलञ्च कालेन पुष्पन्ति वनेषु वृक्षाः॥ कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णविम्बः । नाकालतः पुष्पफलं द्रमाणां नाकालवेगा सरितो वहन्ति । नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवः।। नाकालतो म्रियते जायते वा नाकालता व्याहरते च वालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति वीजगुप्तम् ।। नाकालतो भानुरुपैति योगं नाकालतोऽस्तङ्गिरिमभ्युपैति । नाकालतो वर्धते हीयते च चन्द्रः समुद्रोऽपि महोर्मिशाली ।।
अशनं शयन यानमुत्थान पानभोजनम् । नियत सर्वभूताना कालेन हि भवन्त्युत ।। वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुवेला । श्रीमन्तश्चापरे पण्डा विचित्रा कालपर्यया ॥
(महाभारत राजधर्म २५ )