________________
७५
सूत्राङ्काः
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
पृष्ठाङ्काः ।
चतुर्थाध्यायस्य तृतीयः पादः ४ | ३ ॥ १ अर्चिराद्यधिकरणम् ।
१ अर्चिरादिमार्गेण प्रायो ज्ञानमार्गीय एव गच्छति न तु मर्या ३३० दामार्गीयोपि । तद्य इत्थं विदुरिति ज्ञानमार्गीयस्यैव तत्रो - कर्षकथनात् ।
२ छान्दोग्ये मासेभ्यः संवत्सरमित्यत्र संवत्सरादुत्तरं वायु- ३३३ लोको निवेश्यः । अविशेष विशेषाभ्याम् । तथाहि अर्निरारम्भ्य संवत्सरान्तानां भूसंबन्धित्वेनाविशेषात्तन्मध्ये वायुर्न निवेश्यः। वायुरन्तरिक्षस्याधिपतिरिति श्रुतेः । सूर्यो दिवोधिपतिरिति श्रुतेश्व । एतयोः पौर्वापर्ये विशेषहेतुरस्तीति सूर्यलोकात्पूर्वं वायुलोको निवेश्यः ।
३ चन्द्रमसो विद्युतमित्यत्र विद्युल्लोकात्परतो वरुणलोको निवे- ३३५ श्यः । तडितो जलसंबन्धित्वेन वरुणस्य जलपतित्वेन च
जलीयसंबन्धस्य सत्त्वात् ।
४ वरुणलोकात्परमिन्द्रलोकः प्रजापतिलोकश्व निवेशनीयः संब- ३३५ न्धादेव हेतोः ॥
२ आतिवाहिकाधिकरणम् ।
५ एतस्मिन्नेव मार्गे प्रजापतिलोकोत्तरमातिवाहिकपुरुषा उपसं- ३३५ हार्याः । ब्रह्मसंबन्धित्वलिङ्गात् ।
६ स्वकृतमार्गस्य साफल्याय भगवानेव कांश्चिज्ज्ञानिनो मर्या - ३३७ दामागयभक्तांश्व व्यामोहयति । अतः कामनासिध्या फलभोगः ।
७ ब्रह्मलोकसंबन्धिना वैद्युतपुरुषेणैव ब्रह्मलोकप्राप्तिः । तान् वैद्यु- ३३७ तादिति श्रुतेः ॥
३ कार्याधिकरणम् ।
1
८ स एतानित्यत्र कार्यं ब्रह्मोच्यते । यतोस्य तत्रैव गमनमुपप- ३३८ द्यते न ब्रह्मणि । तस्य व्यापकत्वात् ।