________________
७३
प्रतिसूत्रं श्रीमवणुभान्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। २ भूताधिकरणम् । ५ मर्यादाभक्तानामिन्द्रियाणि भूतेषु लीयन्ते। यत्रास्येति श्रुतेः। ३१९ ६ मर्यादाभक्तस्य ज्ञानिनश्चोभयोरपि मर्यादायामङ्गीकारो यतो ३२१ याज्ञवल्क्यार्तभागौ तथा दर्शयतः ॥
३ समानाधिकरणम् । ७ मर्यादामार्गे जीवसंसरणमारभ्य मोक्षपर्यन्तं साधनेनैव ३२२ मुक्तिरिति व्यवस्था समाना । मध्ये भेदो न भवति । पुष्टिमार्गे तु साधनमकृत्वैवामृतं नियतम् । ८ पुष्टिफलदशायां मर्यादामार्गीयमोक्षस्य संसारत्वेन कथनात् ३२२ संसारतुल्यतैवातो याज्ञवल्क्यार्तभागाभ्यां मोक्षस्य कर्मत्वेन
कथनम् । ९ पुष्टिमार्गीयतत्वं सूक्ष्मम् । यतो वाचो निवर्तन्त इति श्रुत्या ३२३
तथोपलब्धः। १० ननु पुष्टिमार्गीयाः स्वमार्गतत्त्वं मित्रादिभ्यः कुतो नोपदिशन्ति ३२३
तत्राह-ऐश्वर्यभावे ह्युपदेशः संभवति । पुष्टिमार्गीयाणां तु द्वे एवावस्थे । विरहदशा भगवत्संगमदशा चेति । तत्र विरहदशायामैश्वर्यादीनां विनाशादुपदेशो न संभवति । भगवत्संगदशायां त्वैश्वर्यादीनां सत्त्वेपि भगवदानन्दानुभवनि
मग्नचित्तत्त्वेनोपदेशस्यासंभवः । ११ ननु रसात्मकभगवत्स्वरूपानुभवे तेषां विरहदुःखं कथमिति ३२४
चेत्तत्राह-अस्यैवानन्दात्मकभगवत एव धर्मो विरहाख्यः । नन्वानन्दात्मकस्य दुःखरूपो धर्मः कथमिति चेन्न । भगव
दन्तःप्राप्तिबाह्यप्राप्तिभ्यामानन्दानुभवविरहतापयोरुपपत्तेः । १२ ननु श्रुतौ दुःखं निषिध्यत इति चेन्न तत्र श्रुतौ रोगेण सह ३२४
पाठाच्छारीरदुःखस्यैव तत्र निषेधात् । एवं च शृङ्गारव्यभिचारिभावात्मकं तु दुःखं न निषिध्यते ।