________________
प्रतिसूत्रं श्रीमदणुभाज्यतात्पर्यम् ।
सूत्राङ्काः
पृधाङ्काः। ८ उत्कटभावेन निरन्तरस्मृत्यात्मकध्यानादपि भगवांस्तदन ३०८
आसीनो भवति । ९ भक्तेच्छामपेक्ष्याचलत्वं चलत्वमपि वा भगवतो भवति । ३०९ १० केचिद्भक्ता अन्यफलनिरपेक्षतया भगवन्तं स्मरन्ति कीर्त- ३०९ यन्ति शृण्वन्ति च ॥
४ यत्रैकाग्रताधिकरणम् । ११ यत्र भक्तेष्वेकाग्रता न त्वन्तर्बहिर्विज्ञानं तद्भक्तमध्येन्तर्बहिः ३०९ पश्यतोभक्तयोः किमपि तारतम्यं नास्ति विशेषाभावात् ॥
५ आषायणाधिकरणम् । १२ परमपुरुषार्थरूपफलप्राप्तिपर्यन्तं बाह्यान्तरत्वानुसंधानरहिता- ३०९
वस्था नित्या । ततः परं सायुज्यामित्यपि न । तत्रापि पूर्ववद्भगवता सह समालापादिकं तस्य दृष्टमेव फलम् । नादृष्टं सायुज्यादिकम् ॥
६ तदधिगमाधिकरणम् । १३ ब्रह्मज्ञानस्याधिगमे सति उत्तरपापस्यासंबन्धः पूर्वपापस्य ३१०
विनाशश्च भवति । यथेषीकातूलमिति श्रुत्या यथैधांसीति
स्मृत्याच तथा प्रतिपादनात् । १४ एवमेव पुण्यस्यापि गतिः । भगवद्भावाच्च्युतिरूपे पापेप्येवमेव १११
पुण्यपापयोरश्लेषविनाशौ स्तः। १५ प्रारब्धेतरसंचितक्रियमाणसुकृतदुष्कृते एव नश्यतः। तत्पार- ३१२
ब्धकर्मणामदहनं कार्यरूपभगवदिच्छातो ज्ञेयम् । १६ ननु प्रारब्धकार्यभोग एव ज्ञानानन्तरमनुष्ठेयो नान्यत् । ३१३
जनकादिभिरग्निहोत्रमनुष्ठितं दृश्यते तत्फलजनकं स्यादिति चेन्न । तेषां जनकादीनामग्निहोत्रादिकार्यकरणस्य प्रारब्धकमोपभोगायैवोपयोगात् । यथाकारीति श्रुतिदर्शनात् ॥