________________
प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् ।
सूत्राङ्काः
पृशङ्काः। त्संबन्धरूपभोगादेव मन्यते भक्तः । सोभुत इत्यादिश्रुतिषु साक्षाद्भगवद्रूपरसाशनमुक्तम् ॥
६ बहिस्तूभयथेत्यधिकरणम् । ४२ भगवद्भावमात्रे स्वरूपानुभवेनोभयत्रापि गृहत्यागः कार्यः । २९४
स्मृतेरुद्धवादीनामाचाराच्च । ४३ गृहादित्यागस्य साधनत्वेनाङ्गीकारो न । पुष्टिमार्गीयस्य २९५
भगवत एव फलप्राप्तेरित्यात्रेयः। ४४ गृहादित्यागपूर्वकं भगवन्निकटे भक्तस्य गमनमृत्विकर्मवज्ञ- २९५
यम् । यत ऋत्विक् यजमानार्थं क्रीयते । ४५ भक्तिरस्य भजनमित्यादिश्रुतेरयं सिद्धान्तो ज्ञेयः ॥ २९६
७ सहकार्यन्तराधिकरणम् । ४६ जीवानां भगवदङ्गीकारो द्विधा । तत्र शमदमाविसहकारि- २९७
विधानं मर्यादामार्गपक्षेण । पुष्टिमार्गे तु वरणातिरिक्तसाधनाभावाद्वरणवतः कायिकादिसाधनेषु तृतीयं मानसिकं साधनमुक्तम् । तन्मानसिकसाधनमपि विध्यादिवज्ज्ञेयम् ॥
८ गृहिणोपसंहार इत्यधिकरणम् । ४७ गृहस्थाश्रमे कुटुम्बसाहित्येन सेवाकरणात्सर्वेन्द्रियाणां भगव- २९७
द्विनियोगः । परिजनकृतार्थता चाधिका संपद्यत इति
गृहिणोपसंहारः । तुशब्देन मर्यादामार्गीयगृहस्थनिरासः। ४८ मौनादयो गुणाः संन्यासिवद्गृहस्थस्यापि । एवं च गुणा- २९९
धिक्याद्गृहिणोपसंहारः। ४९ भगवता सह संबन्धदाात् वेदाध्ययनादिगृहस्थधर्भगव- २९९
द्भावमप्रकटयन् भगवद्भजनं कुर्यात् । ५० भगवद्भावगोपनार्थं वैदिककर्मवल्लौकिकसुतसंस्कारादिकं कर्म २९९
प्रस्तुतभगवद्भजनाप्रतिबन्धेन कर्तन्यं श्रुतौ धार्मिकपुत्रविधानदर्शनात् ॥
ए [ अणुभाग्य ]