________________
अणुभाष्यम् ।
૪
सूत्राडू..
पृष्ठाङ्काः।
२४ ननु चन्दनस्यावस्थानं नियतं तेन विषमो दृष्टान्त इति चेन्न । १४८ अभ्युपगम्यते हि जीवस्यापि स्थानविशेषो हृदयम् ।
२५ यथा मणेः कान्तिः सर्वशरीरव्यापिनी तथा जीवश्चैतन्यगु- १४८ न सर्व व्याप्नोति ।
२६ चैतन्यगुणस्य स्वाश्रयाधिकदेशवृत्तित्वं चम्पकादिगन्धवत् । १४८ २७ हृदयायतनत्वमात्मनोभिधाय तस्यैवालोमभ्य इति चैतन्यगु- १४९ न समस्तशरीरव्यापित्वं दर्शयति ।
२८ प्रज्ञया शरीरमिति श्रुत्या करणत्वेन पृथगुपदेशाचैतन्यं १४९ गुणः ॥
१३ तद्गुणसारत्वादित्यधिकरणम् ।
२९ प्रज्ञाद्रष्टृत्वादिब्रह्मगुण प्रधानत्वाज्जीवे तत्त्वमसीत्यनेन परब्रह्मत्व- १४९ व्यपदेशः । अन्यस्यान्यधर्मवत्त्वेन कथने प्राज्ञेनात्मनेति दृष्टान्तः ।
३० यावदात्मा ब्रह्म भवत्यानन्दांशप्राकट्येन तावदेव तद्यपदेशः । १५० तन नायुक्त व्यपदेशरूपो दोषः । तथैव तद्दर्शनात् ।
३१ यथा पुंस्त्वं बाल्ये विद्यमानमेव प्रकाशते तथानन्दांशस्यापि १५० सत एव व्यक्तियोगः ।
३२ नन्विदानीं सच्चिदशावेव प्रकटी मोक्षे त्वानन्दांशोपि प्रकटो १५१ भवतीत्यवस्थाविभागे को हेतुरित्यत आह--यदीदानीमप्यानन्दः प्रकटः स्यात्तदा सच्चिदशवदस्याप्युपलब्धिः स्यात्संसारश्व न स्यात् । यदि कदापि न स्यात्तदा मोक्षावस्था विरुध्येत । यदि जीवो निरानन्द एव ब्रह्मवानन्दमयमिति नियमस्तदा ब्रह्मैव सन्ब्रह्माप्येतीति श्रुतिविरोधः ॥
•
१४ कर्ता शास्त्रार्थवत्त्वादित्यधिकरणम् ।
३३ वेदादिषु जीवमेवाधिकृत्याभ्युदयनिःश्रेयसफलकानां यज्ञो- १५१ पासनारूपाणां कर्मणां विज्ञानदर्शनाज्जीव एव कर्ता ।