________________
भ. २ पा. २ व. २८1
अणुभाग्यम् ।
निराकरोति । स च ज्ञानातिरिक्तः प्रपञ्च नास्तीत्याह । तन्न । अस्प प्रपञ्चस्य नाभावः । उपलब्धेः । उपलभ्यते हि प्रपञ्चः । यस्तूपलभमान एव नाहमुपलभ इति वदति स कथमुपादेयवचनः स्यात् ॥ २।२।२८ ॥
वैधाच्च न स्वमादिवत् ॥ २॥२॥२९॥ ५ ननूपलब्धिमात्रेण न वस्तुसत्त्वम् । स्वप्नमायाभ्रमेष्वन्यथा दृष्टत्वादिति चेत् । न । वैधात् । स्वप्नादिषु तदानीमेव स्वप्नान्ते वा वस्तुनोम्यथा भावोपलम्भात् । न तथा जागरिते। वर्षानन्तरमपि दृश्यमानः स्तम्भः स्तम्म एव । स्वस्य माक्षे प्रवृत्तिव्याघातश्चकारार्थः ॥ २।२।२९॥
न भावोनुपलब्धेः ॥ २॥२॥३०॥ १० यदप्युच्यते बाह्यार्थव्यतिरेकेणापि वासनया ज्ञानवैचित्र्यं भविष्य
तौति । तन्न । वासनानां न भाव उपपद्यते । त्वन्मते बाह्यार्थस्यानुपलब्धेः । उपलब्धस्य हि वासनाजनकत्वम् । अनादित्वे त्वन्धपरम्परान्यायेनाप्रतिष्ठेव । अर्थव्यतिरेकेण वासनाया अभावाद वासनाव्यतिरेकेणाप्योपलब्धेरन्वयव्यतिरेकाभ्यामर्थसिद्धिः ॥ २२।३० ॥
क्षणिकत्वाच्च ॥ २॥२॥३१ ॥ वासनाया आधारोपि नास्ति । आलयविज्ञानस्य क्षणिकत्वात् । वृत्तिविज्ञानवत् । एवं सौत्रान्तिको विज्ञानवादी च प्रत्युक्तः । माध्यमिकस्तु मायावादिवदसंबद्धभाषित्वादुपेक्ष्य इति न निराक्रियत आचार्येण ॥ २२॥३१॥
सर्वथानुपपत्तेश्च ॥ २॥२॥३२॥ किं बहुना । बाह्यवादो यथा यथा विचार्यते तथा तथासंबद्ध एवेत्पलं विस्तरेण । चकाराद्वेदविरोधो मुख्यः ॥ २।२।३२ ॥ ५॥
६ नैकस्मिन्नसंभवादित्यधिकरणम् ।
नैकस्मिन्नसंभवातू ॥ २॥२॥३३॥ २. विवसनसमयो निराक्रियते । ते ह्यन्तर्निष्ठाः पञ्च उदासीनाः
सम विभकीः परेच्छया वदन्ति । स्याच्छन्दोभीश्वचनः । आस्तितस्त्व