________________
अथ द्वितीयाध्यायस्य प्रथमः पादः ॥ १ स्मृत्यनवकाशदोषप्रसंग इत्याधिकरणम् । स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोपप्रसंगात || २|१|१ |
प्रथमाध्याये वेदान्तवाक्यानां विवादास्पदानां ब्रह्मपरत्वेन समन्वयः प्रतिपादितः । अधुना श्रुतिस्मृत्यविरोधः प्रतिपाद्यते । भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ।
१०
न तद्विरोधाद्वचनं वैदिकं शङ्कन्यां व्रजेत् ।। २६ ।। श्रुतिविप्रतिषेधस्त्ववश्यं प्रतिविधेयः । प्रथमचतुर्थपादे सर्वथानुपयोगे प्रतिपादिते स्मृतिप्रतिपादिते स्मृतित्ववचनेन प्रामाण्ये व याचमामाण्यं न प्रतिपाद्यते तावत्तद्विरोधः परिहर्तुमशक्यति तन्निराकरणार्थं प्रथमतः सूत्रत्रयमाह । तुल्यबलानां परस्परविरोधे न प्रकारान्तरस्थितिरिति ततो युक्त्या श्रुतिविप्रतिषेधपरिहारः । ततो द्वितीये पादे वेदनाधकत्वाभावेपि तैरपि स्वातन्त्र्येण कश्चन पुरुषार्थः सेत्स्यतीत्याशङ्कय नाद्याह्यमतान्येकीकृत्य निराकरोति । भ्रान्तेस्तुल्यत्वात् । ततः सम्यग्देदार्थविचारायैव वैदिकपदार्थानां क्रमस्वरूपविचार: पादद्वयेन । अतः संपूर्णनाप्यध्याये - नाविरोधः प्रतिपाद्यते । कपिलादिमहर्षिकृतस्मृतेर्न मन्वादिवदन्यत्रोपयोगः । मोक्षैकोपयोगित्वात् । तत्राप्यनवकाशे वैयर्थ्यापत्तेरिति चेन्न कपिलव्यतिरिक्तशुद्धब्रह्मकारणवाचकस्मृत्यनवकाशदोषप्रसंग: । अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा (भ.गी. ६/७ ) इति || २ |१| १ || १ ॥
२५
२०
13- A, Cand fread वेदबाधक for वेदद्बोधक |
१ अस्याधिकरणस्य नाम बेदान्ताधिकरणमालायां नोपलभ्यते ।