________________
८२
अन्त्यकर्मदीपके अमुकगोत्राय प्रेतपितामहायामुकशर्मणे रुद्रस्वरूपाय ( अमुकगोत्रायै प्रेतावृद्धश्वश्वै अमुकदेव्यै रुद्रस्वरूपायै इति जलधा० द० पूर्ववत् तृतीयं पिण्डं गृहीत्या अद्येहामुकगोत्र प्रेतप्रपितामहामुकशर्मन्नादित्यस्वरूप ( अमुकगोत्रे प्रेतावृद्धतरश्वश्रु अमुकदेवि आदित्यस्वरूपे ) सपिण्डीकरणश्राद्धे एषोऽन्नपिण्डोऽमृतस्वरूपो महत्तस्तेऽस्तु इति दत्त्वा इयं भूमि० अमुकगोत्राय प्रेतप्रपितामहायामुकशर्मणे आदित्यस्वरूपाय ( अमुकगोत्रायै प्रेतावृद्धतरश्वश्चै अमुकदेव्यै आदित्यस्वरूपायै ) इति जलधारां दद्यात् ।
ततो लेपभागिनामयं भागोऽस्त्विति लेपभागं दत्त्वा सव्येनाचम्या. पसव्येन हस्ते गन्धाक्षतपुष्पाणि गृहीत्वा
(१)ॐअत्र पितरो मादयध्वं यथाभागमावृषायध्वम् ( य०सं०२। ३१) इति जपित्वा श्वासं नियमयन्नप्रादक्षिण्येनोदङ्मुखो भूत्वा श्वासविमोके प्रदक्षिणमावृत्य दक्षिणाभिमुखो भूत्वा ॐ अमीमदन्त पितरो यथा भागमाषायिषत (य०सं० २।३१ ) इति जपेत् । ततो गन्धपुष्पाक्षतान् पिण्डोपरि निक्षिपेत् ।
(२)ततः प्रत्यवनेजनम् । सतिलमोटकं गृहीत्वा अद्येहामुकगोत्र प्रेतपितरमुकशर्मन् वसुस्वरूप ( अमुकगोत्रे प्रेताश्वश्रु अमुकदेवि वसुस्व
(१) तत्र जपति "अन पितरो मादयध्वं यथाभागमावृषायध्वम्" इति । अथ पराङ् पर्यावर्तते । आतमितोरासीतेत्याहुः । अथोपपल्यय्य जपति “अमीमदन्त पितरो यथाभागमावृषायिषत" इति । अथावनेजयति। अथ नीविमुबृह्य नमस्करोति पितृदेवत्या वै नीविः । षटकृत्वो नमस्करोति षड्वा ऋतवः । ऋतवः पितरः । गृहान्नः पितरो दत्तेत्याशीः । अथावजिघ्रति प्रत्यवधाय पिण्डान् इति (श ब्रा०कां०२ । अ०४ ब्रा०२०२०) ब्राह्मणमनुसृत्य अयं प्रकारोऽभिहितः। तेन सव्यापसव्यादिप्रकारो हेयः। अप्रादक्षिण्यप्रादक्षिण्ययोरेव ब्राह्मणवाक्यतो लाभात् । तथैव भाष्यकारेण व्याख्यानाचेति बोध्यम् । तत्र पिण्डोपरि गन्धपुष्पादिप्रक्षेपणं समाचारसिद्धम् ।
(२) बहुषु पद्धतिपुस्तकेषु अस्मिन्नेवावसरे प्रेतपिण्डस्य त्रेधा विभागं कृत्वा प्रेतपित्रादिपिण्हेषु योजनमुपन्यस्यानन्तरं कर्तुः पितामहत्वादिना प्रेतपित्रादीनुल्लिख्य प्रत्यवनेजनादयः पार्वणधर्मा निर्दिष्टाः । परं तु एवमनुष्ठाने पिण्डयोजनात्पूर्व प्रेतसम्बन्धित्वेन तेषां सङ्कल्पवाक्ये उल्लेखः, अनन्तरं प्रेतपदप्रयोगाभावात् कर्तुः सम्बन्धित्वेनेति वैषम्यं स्यात् । न च पूर्वमपि कत्तुः पितामहत्वादिनैवोल्लेखोऽस्त्विति वाच्यम् । तत: पूर्वप्रेतसम्बन्धित्वेनोल्लेखस्यैव समाचारसिद्धत्वात् । किञ्च यथा प्रेतपिण्डदानानन्तरं