________________
सपिण्डीकरणश्राद्धप्रयोगः। श्रेतमण्डलं गत्वाऽपसव्येन प्रेतब्राह्मणमाचाम्य पितृमण्डलं गत्वा पितृब्राह्मणमाचामयेत् ।
(१)सव्येन स्वेष्टदेवतायै विष्णवे नैवेद्यं समर्प्य वैश्वदेविकमण्डलं गत्वा भोजनपात्रस्थापनार्थं भस्मना (२)चतुष्कोणमण्डलं
यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति ।
एवं मण्डलभस्माङ्कः सर्वभूतानि रक्षतु ॥ इति मन्त्रेण विलिख्य तदुपरि पत्रावलि वामभागे जलं च संस्थाप्य प्रेतमण्डलं गत्वाऽपसव्येन त्रिकोणं वर्तुलं वा भस्मना विलिख्य पत्रावलिं जलं च स्थापयित्वा पञ्चगव्येनाभिषिक्तः पितृमण्डलं गत्वोक्तमन्त्रण भस्मना वर्तुलं विलिख्य पत्रावलिं वामभागे जलं च संस्थाप्य पितृब्राह्मणसमीपे सव्येनैकं पत्रपुटादिपात्रं संस्थाप्य जलेन पूरयित्वा पात्रान्तरे घृताक्तमन्नमादाय भो ब्राह्मणा युष्मदनुज्ञयाऽनौकरणमहं करिष्ये इति पृष्ट्वा कुरुष्वेत्यनुज्ञात: अपसव्येन
ॐअग्नये कन्यवाहनाय स्वाहा-(य०सं०२।२६) इदमग्नये कव्यवाहनाय न मम | ॐसोमाय पितृमते स्वाहा (य०सं०२।२६) इद सोमाय पितृमते न ममेति जले आहुतिद्वयं हुत्वा किञ्चित्पितृपात्रे(३) दत्त्वा किञ्चित्पिण्डार्थमवशेषयेत् ।। (१) विष्णोनिवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्याय कल्पते ॥ इति स्कान्दात् ।
यः श्राद्धकाले हरिभक्तशेषं ददाति भक्त्या पितृदेवतानाम् । तेनैव पिण्डांस्तुलसीविमिश्रानाकल्पकोटिं पितरस्तु तृप्ताः ॥ इति ब्राह्माच्चेति श्रीधरस्वाम्यादयः।
(२) "दैवे चतुरस्रं पित्र्ये वृत्तं मण्डलं कृत्वा क्रमेण सयवान् सतिलांश्च दर्भान् दद्यात्" इति निर्णय० बहवृचपरिशिष्टोक्तेः,
मण्डलानि च कार्याणि नैवारैश्चूर्णकैः शुभैः।
गौरमृत्तिकया वापि भस्मना गोमयेन वा ॥ इति ब्राह्मोक्तेश्च दैवे चतुष्कोणं पित्र्ये वतुलं भस्मना कार्यम् । तदलाभे वारिणाऽपि भृगुणोक्तम् । वर्णभेदेन भेदा अपि तेनोक्ताः ।
(३) अग्नौकरणशेषं तु पित्र्ये तु प्रतिपादयेत् ।