________________
सपिण्डीकरणश्राद्धप्रयोगः |
६६
ॐ विश्वेदेवास आगत शृणुता म इम हवम् । एवं बर्हिर्निषीदत इत्यावाह्य ( य० सं०७ | ३४ ) (१) यवान् विकीर्य अञ्जलिं बघा ॐ विश्वेदेवाः शृणुतेम हवं मे ये अन्तरिक्षे उपद्यविष्ठ । ये अग्निजिद्दा उत वा यजत्रा सद्यास्मिन् बर्हिषि मादयध्वम् ।
( य० सं० ३३ । ५३ )
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
11
ये ह्यत्र विहिताः श्राद्धे सावधाना भवन्तु इति जपेत् । ततः पितृमण्डलं गच्छेत् प्रेतस्यावाहनाभावात् । अपसव्येन तिलान् गृहीत्वा अद्येहामुकगोत्रान् प्रेतपितृपितामहप्रपितामहानमुकामुकशर्मणः वसुरुद्रादित्यस्वरूपान् (अमुकगोत्राः प्रेताश्वश्रूवृद्धश्वश्रूवृद्धतरश्वश्रूः अमुकामुकदेवी : वसुरुद्रादित्यस्वरूपाः ) (२) पितॄन् सपिण्डीकरणश्राद्धेऽह्मावाहयिष्ये इति पृष्ट्वा आवाहयेत्यनुज्ञात:---
ॐ उशन्तस्त्वा निघोमह्युशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे तवे ( ० सं०१६ | ७० ) इति आवाह्य तिलान् विकीर्य अञ्जलिं बध्वा -
ॐ त्र्यन्तु नः पितरः सोम्यासो अग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् । इति (य० सं० .१६/५८) जपेत् ।
(१) "आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा |
यवैरन्ववकीर्याथ” इति याज्ञवल्क्येन यवैः भूमेः प्रादक्षिण्येनावकिरणमुपदिष्टम् । एवं हस्तार्घपात्रे वैश्वदेविके यवानां प्रक्षेपोपि “भाजने सपवित्रके । शन्नोदेव्या यः क्षिप्त्वा यवोसीति यवांस्तथा ॥ २३० ॥ इति तेन विहितः । परन्तु कर्कायै - तन्न रोचते । कात्यायनेनानुपदेशात् । अतस्तन्मते दैविकेऽपि तिलविकिरणमेवेति बोध्यम् ।
(२) पितृशब्दोऽयं सपिण्डीकरणान्त संस्कारजन्यपितृभावापत्तिरूपप्रवृत्तिनिमित्तकः, यथा पितृभ्यो दद्यात् पितृनावाहयिष्ये, पितॄन् हविषे अत्तवे, आयन्तुनः पितरः, अंत्र पितरोमादयध्वम्, अमीमदन्त पितरः, नमो वः पितरः, एतद्वः पितरः, तर्पयत मे पितॄन् इत्यादि । तस्य पित्रादिषु मातामहादिषु मातृभ्रातृपितृव्यादिषु च तुल्यत्वानोहः कुत्रापि । अतः पितृनावाहयिष्ये इत्येव सर्वत्र प्रश्न इति कर्कभाष्ये स्पष्टम् । तदनुसारेण अस्माभिरपि मातृपक्षे नोहः प्रदर्शित इति बोध्यम् ।