________________
धेन्वादिदानम् ।
मा
५
अथ मोक्षधेनुदानम् । गां निष्क्रयद्रव्यं वा पुरतो निधाय प्रतिज्ञादिकं पूर्ववत्कृत्वा देशकालौ सङ्कीर्त्य मम ( पित्रादेः ) भगवत्प्रसादान्मोक्षप्राप्तये इमां मोक्षधेनु रुद्रदैवताम् ( तन्मूल्यद्रव्यममुकदैवतम् ) अमुकगोत्राय ब्राह्मणाय०
मोक्षं देहि हृषीकेश मोक्षं देहि जनार्दन । __ मोक्षधेनुप्रदानेन मुकुन्द: प्रीयतां मम ॥ इति पठन्। मूल्यपक्षे “मोक्षधेनोर्मूल्यदानान्मुकुन्दः प्रीयतां मम"।
इत्युत्तरार्धं परिक प्य पठन् दद्यात् । ब्राह्मणः स्वस्तीति० । ततो दानप्रतिष्ठां दद्यात् ।
अथ वैतरणीधेनुदानम् । कृष्णां गां तन्निष्क्रयद्रव्यं वा पुरतो निधाय प्रतिज्ञादिपूजनान्तं पूर्ववत्कृत्वा गां प्रार्थयेत्
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्घरहं ( रयं ) देवि वैतरण्यै नमोऽस्तुते ॥ ततो ब्राह्मणं प्रार्थयेत् ।
विष्णुरूप द्विजश्रेष्ठ भूदेव पतिपावन |
तर्तुं वैतरणी कृष्णां गामेनां प्रददाम्यहम् ॥ ( अस्येति शेषः ) ततो गोपुच्छं गृहीत्वा देशकालौ सङ्कीर्त्य मम ( पित्रादेः ) वैतरणीनदीसन्तरणार्थम् इमां कृष्णां रक्तमाल्याद्यलङ्कृतां रुद्रदैवताम् ( तन्निष्क्रयद्रव्यममुकदैवतम् ) अमुकगोत्राय ब्राह्मणाय०
यमद्वारे महाघोरे कृष्णा वैतरणी नदी । ( अस्य ) तां तत्कामो यच्छामि कृष्णां वैतरणीं तु गाम् ।। या सा वैतरणी प्रोक्ता पूयशोणितवाहिनी । ( अस्य ) हेलया ततुकांमस्तां कृष्णां गां विधिवद्ददे ॥ इति पठन्। मूल्यपक्षे “यमद्वारे महाघोरे कृष्णा वैतरणी नदी | वैतरण्यास्तु गोर्मूल्यं ( अस्य ) तर्तुकामो ददामि ताम् ।। भवसागरमनानां शोकतापोर्मिदुःखिनाम् । त्राता त्वं हि जगन्नाथ शरणागतवत्सल" ॥ इति पठन् दद्यात् । ब्राह्मणः स्वस्तीति० । दानप्रतिष्ठां कुर्यात् ।