________________
व्रतोद्यापनानुकल्पः ।
दीपं प्रज्वाल्याचम्य गणेशं नमस्कृत्य शुक्लाम्बरधरमिति विष्णुं प्रार्थ्य यवतिलकुशजलगन्धाक्षतपुष्पै: कर्मपात्रं सम्पाद्य सुवर्णादिद्रव्यं पुरतः संस्थाप्य ॐदेयद्रव्याय नमः हिरण्यगर्भगर्भस्थमिति गन्धपुष्पाक्षतैः सम्पूज्य हस्ते कर्मपात्रत: कुशतिलजलान्यादाय ॐ विष्णुर्विष्णुर्विष्णुः नमः परमात्मने श्रीपुराणपुरुषोत्तमाय ॐ तत्सत् अत्र पृथिव्यां जम्बूद्वीपे भरतखण्डे आर्यावर्तकदेशे ( अविमुक्तवाराणस क्षेत्रे महाश्मशाने आनन्दकानने गौरीमुखे त्रिकण्टकविराजिते भागीरथ्याः पश्चिमे तीरे ) विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे
विंशतितमे कलियुगे कलिप्रथमचरणे विक्रमशके बौद्धावतारे षष्टिसंवत्राणां मध्ये अमुकनाम संवत्सरे अमुकायने अमुक अमुकमासे अमुकपक्षे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते चन्द्रमसि अकराशिस्थिते देवगुरौ अमुकवासरान्त्रितायाममुकतिथौ अमुकगोत्र : अकराशिरमुकशर्मा श्रहं ममात्मन: ( ममपित्रादे: ) व्रतप्रहणदिवसादारभ्य अद्य यावत् फलाभिलाषादिगृहीतानां निष्कामतया गृहीतानां च अमुकामुकव्रतानाम् अकृतोद्यापनदोषपरिहारार्थं श्रुतिस्मृतिपुराणोक्ततत्तद्व्रतजन्यसाङ्गफलप्राप्त्यर्थं विञ्णवादीनां तत्तद्देवानां प्रीतये इदं सुवर्णमभिदैवतम् (तदभावे इदं रजतं चन्द्रदैवतम् ) अमुकगोत्रायामुकशर्मणे ब्राह्मणाय 'दास्ये ॐ तत्सन्न मम, इति सङ्कल्प्य ब्राह्मणं नमो ब्रह्मण्यदेवा येत्यादिना सम्पूज्य हिरण्यगर्भगर्भस्थमिति मन्त्रं पठन् इदं सुवर्णं ( रजतं ) तुभ्यमहं सम्प्रददे इति दद्यात् । ब्राह्मणं प्रणम्य यस्य स्मृत्येति पठेत् । ब्राह्मणश्च सर्वाणि व्रतानि परिपूर्णानि सन्तु उद्यापनफलावाप्तिरस्तु इति वदेत् । (अस्थ दक्षिणा दानरूपत्वान्न दानप्रतिष्ठासिद्धयर्थं दक्षिणान्तरदानमिति बोध्यम् ) ।
सर्वषामुद्यापनवस्तूनाम् अलाभे व्रतपरिपूर्त्यर्थं विप्रवाक्यश्रवणं दक्षिणादानपूर्वकं कर्तव्यमिति । दक्षिणा च भूमिरूपा गोरूपा काञ्चनरूपा च । तत्र काञ्चनदक्षिणा दानरूपव्रतोद्यापनानुकल्पः सौकर्या दत्रोपदिश्यते । यद्यपि प्रतिव्रतं तदुद्यापनानुकल्पतया सुवर्णदानं पृथक पृथक अनुष्ठामुचितं तथापि अशक्तस्य सर्वव्रतोद्यापनानुकल्पतया सकृत्तदनुष्ठानम् आवश्यकम् इत्यभिप्रेत्य सर्वव्रतोद्यापनानुकल्पतया तदनुष्ठानप्रकार उपदिश्यते ।