________________
आशौचकालनिर्णयः 1
तन्नेति कमलाकरभट्टा: । जनकेऽपि - बैजिकादभिसम्बन्धादनुरुन्ध्यादुघं त्र्यहम् | इति वाचनिकाशौचस्यानिवार्यत्वात् ।
दत्तकश्च स्वयंदत्तः कृत्रिमः क्रीत एव च । इत्युपक्रम्य
सूतके मृतके चैव व्यहाशौचस्य भागिनः । इति शुद्धितत्वे ब्राह्मश्च । स्मृतिकौमुद्यां हारलतायामध्येवम् । दत्तकस्य पुत्रपौत्राणां जनने मरणे वा सपिण्डानामेकाह: । सूतके मृत के चैव त्रिरात्रं परपूर्वयोः ।
एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः ॥
इति मरीच्युक्तेः । परपूर्वयो: बीजिपालकयोः ।
१४६
इयं च व्यवस्था प्रागुपनयनाद् बैजिकसम्बन्धाद् यत्र त्रिरात्रमुक्तं तत्रैव । उपनीतदत्तकमरणे तु पालकपितुः तत्सपिण्डानां च त्रिरात्रैकरात्रयोर प्राप्तेर्दशाहाशौचमेवेति मयूखे नीलकण्ठभट्टाः । अस्य मतस्य प्रचारः भट्ट भट्टो पाहेषु काश्यां दृश्यते ।
"अथ तु कथमपि स्वल्पसम्बन्धयुक्ते स्नानं वासोयुतं स्याद्” इति त्रिंशच्छ्लोक्याम् ।
अस्यार्थः खल्पेनापि एकाहाद्याशौच प्रयोजकेन सम्बन्धेन युक्ते मातुलादौ मृते सति सचैल स्नानं कार्यम् । सर्वत्र गुरुणो लघुनो वाऽऽशौचस्य प्राप्तिकाले समाप्तिकाले च स्नातव्यमिति यावत् ।
1
अथवा स्वल्पैर्दशाहभिन्नपक्षिणीत्रिरात्राद्याशौच प्रयोजकैः सम्बन्धैर्युक्ते बन्धुत्रयमातुलानुपनीतसपिण्डादौ मृते देशान्तरे कालान्तरेऽपि स्नानं भवत्येव । तथा च यस्य सन्निहितकालेऽपि स्नानमात्रं तस्य कालान्तरे स्नानमपि नेत्यर्थः ।
यद्वा, स्वल्पः आशौचप्रयोजकसम्बन्धभिन्नः सम्बन्धः श्यालकसुतत्वादि:, ऊढकन्यायाः पितृव्यत्वादिः, पितृभगिन्या भ्रातृपुत्रत्वादिश्च तमुक्ते आशौचाभावेऽपि स्नानमात्रं भवत्येव । यत्किञ्चित्सम्बन्धे आशौचाभावेऽपि स्नानमात्रं सन्निधौ सर्वत्र कार्यमित्यर्थः ।