________________
९६
अन्त्यकर्मदीपके
निधनशान्ति करिष्ये । तत्पूर्वाङ्गत्वेन पुण्याहवाचनं कलशस्थापनपूर्वकं ग्रहपूजनं च करिष्ये इति सङ्कल्प्य पुण्याहवाचनं कृत्वा होमवेद्या ईशानकोणे कलशस्थापनविधिना कलशं संस्थाप्य तत्र ग्रहानावाह्य सम्पूज्य रक्षाविधानं च कृत्वा वेद्यां पञ्चभूसंस्कारान् कृत्वा वरदनामानमग्निं स्थापयेत्
I
ग्रहकलशस्योत्तरतो भूमिं स्पृष्ट्वा यवान् विकीर्य चतुर्दिक्षु मध्ये च गन्धाक्षतार्चितान् वस्त्र ( सूत्र ) वेष्टितान् पञ्च कलशान् स्थापयित्वा जलेनापूर्य तत्र हिरण्यसर्वौषधिदूर्वामृत्तिकादीनि प्रक्षिप्य धान्यपूर्णपात्रैस्तान् पिधाय तदुपरि कृष्णवस्त्रमास्तीर्य तत्र सुर्वणमयीरग्न्युत्तारिताः पञ्चामृतस्नापिताः पञ्च धनिष्ठा दिनक्षत्र देवताप्रतिमा निधाय पार्श्वे दध्यक्षतपुञ्जादौ यमादीन् स्थापयेत् । तदुत्तरतो मृत्युञ्जयं च स्थापयेत् ।
तत्र ॐ भूर्भुवः स्वः वसुभ्यो नमः ॐ भूर्भु० वरुणाय न० ॐ भूर्भु० अजैकपदे न० ॐभूर्भु० अहिर्बुध्न्याय न० ॐ भूर्भु० पूष्णे न० ॐ भूर्भु० यमाय न० ॐ भूर्भु० धर्मराजाय० ॐ भूर्भु० मृत्यवे ० ॐ भूर्भु० अन्तकाय ० ॐ भूर्भु० वैवस्वताय० ॐ भूर्भुवः ० कालाय० ॐ भूर्भु० सर्वभूतक्षयाय० यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ अघोररुद्रं मन्त्रैश्च निर्वापयेत्क्रमेण च । विधिना श्रपणं कृत्वा एकैकामाहुति हुवेत् ॥ कुण्डादीशान दिग्भागे स्थण्डिलं हस्तमात्रकम् । तत्र वस्त्रं समास्तीर्य स्थापयेद्वस्त्रादिपञ्चकम् चतुर्दश यमांश्चैव अघोरं स्थापयेत्पुनः । अब्रणान् कलशान् दिक्षु चतुरो विन्यसेत् क्रमात् ॥ कलशं पञ्चमं मध्ये स्थापयेद्विधिपूर्वकम् | उच्चार्य वारुणं मन्त्रं पूरयेत्तीर्थवारिणा ॥ मध्ये सर्वोषधीः क्षिप्त्वा मृदूदूर्वा पञ्चपल्लवान् । हिरण्यं फलसंयुक्तं वस्त्रेणावेष्टयेत्ततः ॥ कलशोपरि न्यसेन्मूर्तीः पञ्च स्वर्णमयीस्तथा । प्रतिष्ठापूजनं कार्यं पञ्चसूक्तान् जपेत्ततः ॥ श्रपयित्वा चरुं विद्वान् दद्यादग्निमुखं ततः । आघारावाज्यभागौ च ततो वहिं समर्चयेत् ॥ समित्तिलैश्च चरुभिः होमं कुर्यात्पृथक् पृथक् । अघोरेणैव मन्त्रेण ततो होमं चरोः क्रमात् ॥ पूर्णाहुति च विधिवत् पूजयेद्देवतास्ततः । इत्थं समाप्य हवनं धेनुं दद्यात् पयस्विनीम् ॥ सहिरण्याँस्तिलान्दद्यात् महिषीं सप्तधान्यकम् । सहिरण्यं घृतं दद्यात् कृष्णवस्त्रं सदक्षिणम् अभिषेकं ततः कुर्यात् कलशोदकतस्तथा । कलशैः स्नपनं तस्य कुर्यादाज्यावलोकनम् ॥ वस्त्रं चैव परित्याज्यं भक्तिविशेषतः । ब्राह्मणान् भोजयेत् पश्चात् पायसं मधुसर्पिषा ॥ एवं यः कुरुते पुत्र शुभन्तस्य प्रजायते । विधानं यो न कुर्वीत विघ्नस्तस्य भवेत् सदा ॥ तस्मात् सर्वप्रयत्नेन शान्ति कुर्यात् यथाविधि ॥
इति ब्रह्माण्डपुराणोकाः पञ्चकशान्तिश्लोकाः ॥