________________
८६
अन्त्यकर्मदीपके बहुदेयं च नोऽस्तु । अस्तु इति प्र० । अन्नं च नो बहु भवेत् । भवतु इति प्र० | अतिथींश्च लभेमहि । लभध्वम् इति प्र० | याचितारश्च नः सन्तु । सन्तु इति प्र० । मास्म याचिष्म कञ्चन | मा याचेथा: ( मा याचध्वम् ) इति प्र० । एता एवाशिष: सत्याः सन्तु | सन्तु । ___ ततोऽपसव्यं कृत्वा प्रेतपिण्डं गङ्गाजलेन संस्नाप्य ( १ ) सुवर्णशलाकया रजतशलाकया वा त्रिधा विभज्य वासुदेवं स्मरन् प्रेतपिण्डप्रथमशकलं दक्षिणकरेणादाय अन्वारब्धेन सव्यपाणिना प्रेतपितृपिण्डं चादाय वामं जानु निपात्य दक्षिणाभिमुखो गङ्गागयाकुरुक्षेत्रादीन्संस्मृत्य गणेशविष्णुशिवदुर्गासूर्यगार्हपत्यादीन्नमस्कृत्य अमुकगोत्रस्यामुकप्रेतस्य ( अमुकगोत्राया अमुकप्रेताया: ) प्रेतत्वविमुक्तये उत्तमलोकप्राप्त्यर्थं प्रेतपिण्डप्रथमशकलम् अमुकशर्मणः प्रेतपितुः ( अमुकदेव्या: प्रेताश्वश्त्राः ) पिण्डेन सह संयोजयिष्ये । संयोजयेत्यनुज्ञात:
( संसृजतु त्वा पृथिवी वायुरग्निः प्रजापतिः । संसृजध्वं पूर्वेभिः पितृभिः सह ।। समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा नः सुसहासति । सङ्गच्छध्वं संवदध्वं सँ वो मनांसि जानताम् ।
देवा भागं यथा पूर्व सञ्जानाना उपासते ॥) ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥ ये समानाः समनसो जीवा जीवेषु मामकाः । तेषा श्रीमयि कल्पतामस्मिन् लोके शत समाः ॥
इति मन्त्रद्वयं ( मन्त्रपञ्चकं ) पठित्वा अमुकगोत्रामुकप्रेत अमुकगोत्रेणामुकशर्मणा स्वपित्रा ( अमुकगोत्रे अमुकप्रेते अमुकगोत्रयाऽमुकदेव्या
(१) प्रेतपिण्डं विधा कृत्वा सुवर्णस्य शलाकया।
पितामहादिपिण्डेषु मेलयेत्तं पृथक्पृथक् ॥ (१२।३९ ) इति गारुडे विधानात् । सुवर्णशलाकाऽभावे रजतशलाका ग्राह्या। तदभावे कुशादिरूपेति ।