________________
७९६
निषण्णमण्डले मध्ये देवपीठप्रकल्पनम् ॥ ११॥
गरुडः पक्षयुगलस्तिष्ठन्नासीनरूपकः । भुजङ्गभूषः पृथुलकायः कार्यों मनोहरः ॥ १२ ॥
कल्पनीयम् । तत्र सूर्यप्रभायास्तिष्ठचक्राकारायाः पुरोभागे तच्चक्राकारप्रभाया अधिष्ठानं हस्तद्वयोन्नतिकं प्रकल्पयित्वा तेनाधिष्ठानेन संयुतं क्षुद्रप्रमाणं सप्ततुरगवाहनं योजनं कार्यम् । 'सप्त युञ्जन्ति रथमेकचक्रम्' इति वेदवाक्यबलात्तस्य सूर्यप्रभावाहनस्य वाहकतुरगावलिं क्षुद्रप्रमाणं स्थापयदिति शिल्पसमयः ॥
किञ्चास्य सूर्यप्रभावाहनस्य मण्डलाकारस्य नेमिपट्टिकाभागे सूर्यरश्मितुल्या रेखाकारा रश्मयः कल्प्याः । एवं चन्द्रप्रभा. वाहनस्यापि नेमिपट्टिकाभागे षोडशकलास्वरूपकल्पनं कार्यमिति च क्रमबोधः । तस्मादेतादृशलक्षणोपेतस्य सूर्यप्रभावाहनस्य, चन्द्रप्रभावाहनस्य च मण्डलमध्यभागे देवबेरस्थापनस्थानं सायाकीलबन्धं निर्मापयेत् ॥ ११ ॥
अथ गरुडवाहनस्य लक्षणमाह - गरुड इति । पक्ष. युगलोपेतः फणिभूषामण्डिता पृथुलशरीरो वैनतेयवाहनकरूप उत्तिष्ठन्वा उडीनकार्योयुक्तरूप आसीनो या प्रकल्पनीयः । अत्र गरुडवाहननिर्माणविषये हनुमद्वाहननिर्माणविषये च प्रकारद्वय
8. S. 100