SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ ७७६ देवगणसमोपेतमलङ्कारा सनस्थितम् ! दोषहीनं गुणोपेतं प्रमाणविच्छिल्पी प्रकल्पयेदिति शास्त्रकारोपदेशलक्षणवाक्यार्थः ॥ किश्चैतेषु बेरेषु मत्स्य कूर्म वराहवागनभार्गवरामबलभद्राख्यानां देवानां बेराणि ग्रामनगरादिदेवालयेषु गर्भगृहमध्यस्थापितवेदिकायां न मुख्यदेवतात्वेन स्थाप्यानि । परन्तु तत्र स्थाने नारायणकेशवादित्रेरं मुख्यदेवता सान्निध्यवत्स्थापयित्वा एतादृशमत्स्य कूर्मादिवेराणि प्रथमप्राकारमण्डपेषु वा द्वितीयप्राकारमण्डपेषु वा पृथक्स्थापयित्वा पूजयेयुरिति नवीनाः || केचित्तु दशावतारबेराणि सर्वाण्यप्येकत्र स्थापयित्वा पूजयेयुः ; नैतेषां ब्रह्मोत्सवादिकं कार्यमिति च वदन्ति । अन्ये तु दाशरथिरामबासुदेबचेरकल्पनं विनाऽन्येषामेवात्र स्थापनम् । श्रीराम श्री कृष्णबेरयोस्तु पूर्वोक्तगर्भगृहमध्यवेदिकायां स्थापनं युक्तम् । कितयोः पश्नोत्सवमा सोत्सव वार्षिकोत्सवादिरपि युज्यत इति । एवं श्रीधर माधवपद्मनाभादिशुद्धसत्व प्रधानानां शान्तस्वरूपाणां देवबेराणां स्थापनविषयेऽपीति क्रमः । किव सर्वत्र शिवमन्दिरेषु या विष्णुमन्दिरेषु स्थापितानां प्रधानदेवबेराणामेव वार्षिकोत्सवादिकं विभवानुसारि कल्पनीयमित्यादिको विषयः पूजाक्रमश्च शैवागमपाश्चरात्रागम वैखानसागमादिषु द्रष्टव्य इति ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy