________________
७२८
अन्त्यकल्पनमेतत्तु विषमस्थानकं मतम् । आद्यं समं कल्पमाहुश्शास्त्रज्ञा वेदपारगाः ।। ३१ ।। समरेखां दृष्टिहीनं मनोहारिप्रकल्पनम् । स्तम्भानां मुखभागेषु पूर्वोत्तरपदस्थली ।। ३२ ।।
किचैत्रमत्र प्रतिपादितरीत्या शतस्तम्भमण्डप निर्माणन्तु पञ्चविधरूपस्थापनमेव सौकर्याय शोभायै च भवति । अपि च कचित्तत्रतत्र कोणभागेषु मध्यतलेषु मध्यान्तभागेषु च कोणाङ्गणक्षुद्राङ्गणस्थापनपूर्वकं प्रकारान्तरेण शतस्तम्भमण्डपनिर्माणन्तु सद्भिर्नाङ्गीकृतमिति भावो ध्वन्यते । अत एवंशैल्या पञ्चप्रकारकल्पनीय शतस्तम्भमण्डपनिर्माणेषु पूर्वोक्तं प्रकारचतुष्कं समकल्पननामभाग्भवति । अन्त्योक्तं ब्रह्मकान्ताख्यं पञ्चमकल्पनं विषमकल्पननाम भागिति च शिल्पविदां व्यवहारो ज्ञेयः ॥
तस्मादेवं शतस्तम्भमण्डपकल्पने पूर्वभागे स्तम्भानां मिथो यावद्वैशाल्यं देयं कृतं तावदेव प्रमाणं सर्वत्र पश्चाद्भागे च कल्पनीयमिति नियमः । तदानीमेव कल्पनाशोभा सौकर्यादिकमिति भावः । एवं स्तम्भानां मिथो वर्धनादिदर्शनं नानाविधवितानतोरणचित्राद्यलङ्कृतं मण्डप निर्माणं स्थापयेत । किमात्र शतस्तम्भमण्डपकल्पने पूर्वोक्तदैवभागे क्षुद्रमण्डपस्थलन्तु किंचित् उन्नतमेव सर्वत्व कारयेत् । तस्मिन्नेव क्षुद्रमण्डपे देवानां स्थिति
1