________________
७२६
५. ब्रह्मकान्तशतस्तम्भमण्टपलक्षणम् ॥
पञ्चमो ब्रह्मकान्तस्स्यान्मुखपादेऽष्टपादकम् । पृष्ठे च तत्क्रमात्स्तम्भस्थापनं चात्र गण्यते ॥ २८ ॥
तदङ्गणस्थानमाहुश्शिल्पशास्त्रविशारदाः । ततष्पट्स्तम्भविन्यासद्वयं स्थाप्यन्तु पार्श्वयोः ।। २९ ।।
पृष्ठे चैवं स्थापनीयं मध्ये द्वात्रिंशदङ्घ्रिकम् । तन्मध्ये वेदपादन्तु तदैवतमुदाहृतम् ॥ ३० ॥
अथ पचमस्य ब्रह्मकान्ताख्यस्य शतस्तम्भमण्डपकल्पनस्य
पञ्चम इति । ब्रह्मकान्तमण्डपस्यास्य पुरोभागे पश्चाद्भागे च मध्यसूत्रस्थाने चित्रस्तम्भचतुष्कयुतं पङ्क्तिद्वयं पूर्वाङ्गणकल्पनाय, पश्चादङ्गणकल्पनाय च स्थापयित्वा पूर्वभागे मध्यमार्गस्य सव्यभागे अपसव्यभागे च स्तम्भपट्कयुतं पङ्क्तिद्वयं स्थापयेत् । अनेनैव प्रकारेण पश्चाद्भागम्य सव्यापसव्यस्थानयोः स्तम्भपङ्क्तौ स्थापितायां सत्यां आहत्य संख्यायां चतुष्षष्टिस्तम्भा भवन्ति ।।
स्तम्भस्थापनक्रममाह
किश्वेतयोः पूर्वभाग पश्चाद्भागकल्पनयो मध्यस्थाने स्तम्भाष्टकयुतं पक्तिचतुष्कं स्थापयित्वा तन्मध्यस्थले पूर्वोक्तरीत्या देवस्थले क्षुद्रमण्टपनिर्माणाय स्तम्भचतुष्के स्थापिते सति अविकलं शतस्तम्भमण्डप निर्माणं भवेदिति लक्षणवाक्यार्थो ज्ञेयः ॥