________________
७१७
रेखाद्वयं पूर्वभागे तथा पश्चिमभागिके ॥ १९ ॥ तन्मध्ये षोडशप मध्ये सव्येतरेऽपि च । तन्मध्यस्थान भागे च षोडशस्तम्भकल्पनम् ॥ २० ॥
तदन्तस्तु चतुष्पादस्थानं तदैवतं मतम् । सर्वत्र देवभागस्तु तुङ्गो वाऽधिष्ठितोऽपि वा ॥ २१ ॥
मण्डपकल्पनानां सम्मस्थापनक्रम एव दुर्विज्ञेय इति मत्वा ताद्वास्तम्भस्थापनपरिपाटी प्रकटीकरोति - सूर्यसंख्यापदावलि - रिति । शतस्तम्भमण्डपकल्पनस्यास्य पूर्वभागे पङ्किद्वयं स्तम्भानां स्थाप्यं प्रतिपक्तिस्थलं स्तम्भानां द्वादशकस्थापनमिति । तथा च पूर्वभागे पङ्क्तिद्वयस्थाने आहत्य संख्यायां स्तम्भचतुर्विंशतिकमिति ॥
एवं पश्चाद्भागस्थल पङ्किद्वये स्तम्भचतुर्विंशतिकं स्थाप्यम् । एवं स्थापितानां स्तम्भानां मध्यतले स्तम्भान्तरस्थापनार्थ विभक्ते सति तत्र पूर्वोक्तपूर्वभागस्तम्भसमीपे सव्यभागे स्तम्भाष्टकमपसव्यभागे च स्तम्भाष्टकमाहत्य संख्यायामत्र स्तम्भषोडशकं स्थापयेत् । अनेनैव प्रकारेण पश्चाद्भागस्थापितस्तम्भश्रेणिसमीपस्थले च स्तम्भषोडशकं स्थापयित्वा कल्पनस्यास्य मध्यभागे वैशाल्यवति चतुःस्तम्भस्थापनरीत्या स्तम्भश्रेणी चतुष्कं च निर्माणयित्वा तेषाञ्च षोडशस्तम्भानां मध्यभागे दैवभागस्थळे चित्रस्तम्भ