________________
६९१
रविशालासमोपेतं नानाङ्गणसमुज्ज्वलम् । नानाभवनसंभक्तं मध्य भाग सभातलम् ॥ १९ ॥
मण्डपाकारमथवा दूरतश्चत्वरावृतम् । चतुरश्रव्यासयुतवास्तुस्थलसमन्वितम् ॥ २० ॥
द्वादशभौमविराजितं प्रकल्पयेत् । किव प्रायशोऽत्र वनभवननिर्माण मध्यकल्पनस्य कोणभागेषु चतुर्ष्वपि चतस्रश्शालास्तन्मध्यभागे च चतस्रश्शालास्तस्य पुरतः पश्चात्पार्श्वयोव पृथगेव चतस्ररशालाश्चाहतिसंख्यायां द्वादश शाला: स्थापयेदिति
क्रमः ॥
किञ्चतासु शालासु द्वादश संख्याकासु तत्रत्यकल्पनानुगुणं नानाक्षुद्रसदनं तदन्तर्भागे यथाक्रमसूत्रपातं निर्माय सर्वासां तासां शालानां मध्यभागे इतरशालाप्रमाणापेक्षया द्विगुणितवैशाल्यदेयोपेतं मध्यसभा कल्पनश्च निर्मापयेदिति कल्पनाक्रमः । किश्र्वास्य किल सदसः कल्पनस्याधोभागे मध्यमाधिष्ठानं ससोपानं स्थापयेत । किञ्चैवंरीत्या क्षणभासुरस्यास्य वनभवनकल्पनस्य प्राथमिकद्वारस्य पुरोभागे पूर्वभवनञ्च सपादं सशिखरञ्च स्थापयेत । अथवा पूर्वोक्तद्वादशशालानां पुरोभागे पूर्वभवनवत् सपामण्टपकल्पन सडोलास्थानं प्रकल्पयेत् ॥
अपि च वनभवनमित्यस्य नाम्नः प्रतीत्याऽस्य खलु
L