________________
६८९
मध्यकल्पो महाकायः पूर्वाङ्गणसमन्वितः । नवभिस्सोधकर्युक्तो द्वात्रिंशद्वारभासुरः ॥ १५ ॥
मण्टपत्रयमंयुक्तद्वारबदिप्रकल्पनम् । सर्वालङ्कारसंयुक्तं कल्पयेञ्चित्रभासुरम् ॥ १६ ॥
भवने एतादृशाङ्गणम्य तस्याश्च शाला या मध्यभागे वार्थलाख्यचत्वरस्थापनमथवा नवभौमावधिकं नवरङ्गनिर्माणं वा पावस्थलकल्पनाविरुद्धं प्रकल्पयेत् ॥
किश्च, तादृशनवरङ्गसहितमध्यकल्पनं तु दण्डविंशतिकायामादियुतं अत्युनतकायमनेकभौमवातायनं कल्पयित्वा, तत्र तत्र समुचितेषु स्थानेषु द्वात्रिंशन्महाद्वारभासुरं स्थापयेत् ॥
किश्चैतादृशलक्षणशालिनोऽस्य त्रिविष्टपभवनस्य प्राथमिक. द्वारपुरोभागे द्वारवेदिकाकल्पनसहितं वा पृथक्पूर्वमण्डपकल्पनं वाहनशिबिकाद्यारोहणावरोहणार्थ स्थापनीयम् । किश्चैतादृशपूर्वमण्टपनिर्माणं तु चित्रतोरणादि सर्वालङ्कारमण्डितं भवितव्यम् । किञ्च प्रामुखं वा पश्चिममुखं वा स्थापितस्यैतादृशलक्षणोपेतस्याम्य त्रिविष्टपभवनस्य निर्माणे विविधानि कल्पनाम्तराणि, अन्तश्शालादीनि स्थपतिवराः स्वयमेव युक्त्योह्य, दृढप्रकल्पनानि दोषहीनानि गुणोपेतानि स्थलक्रमात्स्थापयेयुरिति शाखकारस्योपवेशा॥
8. 8.87