SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ ६८६ मध्ये मन्दरसंकाशः प्रामादस्सुमनोहरः ॥ ७ ॥ सर्वालङ्कारसंयुक्तं मन्दरं भवनं मतम् । ॥ अथ तृतीयस्य कैलासभवनस्य लक्षणम् ॥ उदक्सूत्रेण संयुक्तं कैलासभवनं मतम् ॥ ८ ॥ दिशास्वष्टस्वष्टशाला कल्पनं मध्यमन्दिरम् | उपशालाङ्गणैर्युक्तं नवभौमञ्च कल्पयेत् ।। ९ ।। विदिक्षु चतसृष्वपि चतस्रो महती शाला दण्डवयमानमिताः निर्मापयित्वा मध्यभागे मन्दरसंकाशोऽत्युन्नन मुमनोहरकल्पनसमेतो वातायनादिघटितोऽत्युन्नतशिखरसमेतः प्रासादः कार्य इति ॥ अथ तृतीयस्य कैला सभव नाख्यम्योत्तम भवनस्य लक्षणमाह - उदक्मूत्रेणेति । उदक्सूत्रमित्यनेन कैलास भवनस्यास्य चतसृष्वपि दिक्षु चतुर्द्वारिकल्पनेऽपि मुख्यं प्राथनिक द्वारमुदङ्मुखमेव स्थापयेदिति भावः प्रतीयते । अपि चात्र मध्यभागस्थितस्य मध्यकैलामकल्पनस्य प्राच्यादिदिशास्वष्टस्वपि दण्डत्रयवैशाल्यदेर्घ्यप्रमाणानां शालानामष्टकं स्थापयित्वा तन्निर्माणकल्पनानुगुणमुपशालां तदर्थमानमितां प्रकल्प्य तत्पश्चाद्भागे तत्प्राप्त्यर्थमङ्गणचतुष्कमथवाऽङ्गणाष्टकं निर्मापणीयम् । अपि चात्र कैलासभत्रने मध्यकल्पनस्योपरिभागे नवभौमावधिकं ateneri स्थापनीयम ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy