________________
६८०
जलाशयः पल्वलश्च कर्तव्यः ः पृथुवारकः । वाहस्थानं वृषस्थानमन्तिके कारयेद्बुधः ।।
क्वचित्तु मदिरागेहं प्राणिनां सुखदायकम् । तृणस्थानमथान्यच्च कल्पयेत्क्रोशमात्रके ॥ १० ॥
पूर्वापर गृहद्वारयोधस्थानं प्रकल्पयेत् । द्वारालङ्करणं कार्यमन्यच्च शुभदर्शनम् ॥
चतुर्वर्गप्रदीपाठ्यं पञ्च गेहसमन्वितम् ।
फलदायिनस्संवर्धयेत् । एतद्वर्धनेन तन्मार्गगमनशीलानां पथिकादीनां बहुधोपकृतिरिति भावः ॥
किश्चैतादृशवृक्षाणामधाभागं वा तत्समीपस्थले वा समुचित धान्याढकादि भारवहन व्यग्रशकटवृषभाद्यवरोहणस्थानमवश्यं कल्पनीयम् । तत्रैव क्वचिन्मदिरागेहं वा यथेप्सितं स्थलान्तरे कोणान्तरे वा दूरम्थले स्थापयित्वा शकटादिभारवहन परिश्रान्तवृषभोवाजिवारणादिजीवानां क्षुन्निवारणार्ह तृष्णादिस्थापनस्थानानि वैश्यवर्गद्वारेण कचित्स्थापयेत् । किञ्चात्र क्वचित्पथिकविश्रान्तिशालाकल्पने मागधशूरसेनाविशैल्या निर्मिते कल्पनस्यास्य मार्गद्वयमेव स्थापयित्वा तत्र च पूर्वभागे पश्चिमभागे च गृहे एतत्कल्पनरक्षकसायुधयोवस्थानं च निर्दिशेत ॥
अपि चात्र समुचितेषु स्थानेषु चत्वरस्थापनतल मध्यभागे