________________
६७२
महाजलगतिस्स्थाप्या रे दूरतरेऽपि वा ॥५॥ नदीमेलनकल्पो वा चाब्धिमेलनकल्पनम् । मध्योन्नतिः पार्श्वनिम्नं धनकल्पनसंयुतम् ॥ ६ ॥ शिलाखण्डैः कुम्भिखण्डेनमेंदुरकल्पनम् । गजपादैरश्वपदिमदितं च दृढीकृतम् ।। ७ ॥
जलनेत्रयुतं वापि स्थलनेत्रयुतन्तु वा। तिर्यग्गमने दृढभूमिलम्बन स्तम्भस्थापनपूर्वकं घनसेतुकल्पनं कार्यमिति च शिल्पसमयः ॥ ४ ॥
__ किञ्चास्य मार्गम्य पक्ष योरुभयोरपि पनवर्पितसलिलादिनिस्मारणाही कुल्यां कचिन्महाकुल्याच खातयित्वा तस्यास्तस्य मार्गस्य च पार्श्वतटं शिलाखण्डघटनादिना दृढकल्पनं विधाय च तादृशमार्गोभयपक्षकुल्यामासन्नजलाशयेषु वा हदेषु नदीषु वा कचित्समुद्रेषु योजयेत् । तदानीभेव तद्वारा झटिति वर्वादिजलस्रावो भवेदिति भावः ॥
किश्चैतादृशमार्गतलं घनशिलाघटितं कारयित्वा कचित् कुम्भिखण्डाख्यबृहच्छिलाघटितञ्च कारयेत् । किञ्च तादृशमार्गमध्यतलं प्रान्ततलञ्च पूर्वोक्तरीत्या गजपादाख्यमर्दनशिलाखण्डैः कचिदश्वपादाख्यमईनशिलाखण्डैद ढकल्पनं मेलयित्वा कचित्ताहशमार्गतले घनवर्षितजलनिस्सरणार्थ जलनेत्राख्यं सरन्ध्रपनशिलामेलनमुभयोः पार्श्वयोः कारयेत् ।।