________________
६६०
सुरक्षितं योगर्भर्वा भृत्यकैरपि ॥ ४ ॥ सायुधन्तु पुरद्वारं रक्षणीयं विशेषतः । एकं द्वयं त्रयं वापि चतुष्कं मेलनं भुवः ॥ ५ ॥ विहारस्थानको पेतं दर्शनस्थानकं तथा । महापणश्रेणियुतं भूरिद्रव्यैर्युतं क्वचित् ॥ ६ ॥
वार्षिक मासिकं स्थानं पाक्षिकं वा क्वचिन्मतम् । लोहदारुशिला वेणुक्रयस्थानादिसंयुतम् ॥ ७ ॥
क्रीडास्थानाश्वारोहणस्थान मल्लयुद्धाजादियुद्धस्थानानि च यथास्थलविभवकल्पनमानं स्थापयेत । किखात्रैव स्थलान्तरे आलोकनकल्पनस्थानं निर्माय नगरबीथीतलादेतादृशमुखद्वारभागे एकं वर्त्म वा वर्त्मद्वयं वा नगरलक्षणप्रकरणोक्तरीत्या चतुर्ष्वपि दिग्भागेषु मार्गचतुष्कं वा कार्यम् । अतः पूर्वोक्तरीत्या तादृशद्वारमार्गचतुष्केन सह देशान्तरगामिमहापथसम्मेलनं कारयित्वा तेषु स्थानेषु यथास्थलविभवं कचित्प्रतिवर्ष प्रतिमासं प्रतिपक्षं वा संघीभूय नानाविधद्रव्यक्रयविक्रयशीलानां वणिजां निवासस्थानं तड़ी द्रव्यस्थापनस्थानच कल्पयेत् । किच स्थलान्तरे कचिद्भागे भूरिप्रमाणवचा म्रपित्तलकांस्यादिलोहानां क्रयस्थानं, कश्चिद्भूरिदारुफलकादिक्रयस्थानं, कचिद्धनशिलावेणुप्रमुख द्रव्य क्रयस्थानानि एसा दश द्रव्यथर्ग निर्माणशालादीनि च स्थापयेत् ||