________________
५९४
दवसापानमयुक्ताधिष्ठानोपरिसस्थितम् ॥७॥ तदर्ध वा तदर्धार्धाधिकमौनत्यमीरितम् ।
किञ्च दवसोपानमित्यत्रायमथेः। यथा- तत्तद्वरतालप्रमाण संख्यानुगुणं सोपानकल्पनामेति केचित् । अन्ये तु सोपानानां त्रयं, पञ्चक, सप्तकं, नवकमिति । परे तु तत्तदेवबिम्बझेपणायुतमिति । तन्मास्तु । कुतः ? भट्टारकादि पदस्पर्शनसंभवात् । किन्तु वह्निवरुणवासबादिविबुधवृन्द स्वरूपात्मक सोपानमेव देवमोपानमित्यन्ये । तस्मात्तादृशवेदिकाधिष्ठानकल्पनसहितमेवैतादृशसोपानानां त्रिपञ्चकादीनां स्थापनं तत्तत्स्थलविभवानुगुणं कल्पनीयम् । तत्रापि तादृशसोपानकल्पने तु अयमेव प्रकारः परिकल्पनीय इति । यथा-गर्भगृहमध्यस्थितायाः पूर्वोक्तवेदिकायादिशलामयत्वे तत्पुरतः कल्पनीयानामेपा सोपानानामपि शिला मयत्वम् । तस्याः लोहपट्टसुवर्णपट्टा द्यावृतत्वे तेषामपि तक्तत्वमित्यादिक्रम इति । एवमुक्तपा परिपाटी तु काचदेव देवालयेषु युक्ता भवति । प्रामादिस्थलकल्पितक्षुद्रप्रमाणगर्भगृहमध्यस्थवेदिकायाः सोपानकल्पनं विनैव स्थापनमपि न दोषायति शिल्पविदामाशयोऽप्यादरणीय इति ॥
किश्चात्र गर्भगृहवेदिकाकल्पनेऽयश्च क्रमोऽवधायः । यथा - घासुदेव शङ्करादिदेवबिम्यानां पृथगेव वेदिका । तत्पार्श्व