________________
गवाक्ष द्वारशिविका कल्पनादिषु मानवित् । समसूत्रं प्रयुञ्जीत यथाशोभं यथाबलम् ॥ ११ ॥ इति विश्वकर्मप्रणीत विश्वकर्मवास्तुशास्त्र कवाटार्गलादिलक्षणकथनं नाम त्रिपञ्चाशोऽध्यायः ॥
५७४
किचैवंरीत्या द्वारगवाक्ष शिविकाखट्वादिस्थानेषु समसूत्रवत्कवाटयोजनं, दृढबन्धनं, युक्तिवशान्मनोहर चित्रादिसहितश्व स्थापयेदिति च क्रमः । अर्गलस्वरूपन्तु सारदारुमयमथवा, दृढपर्वत्रेणुमयं कचिद्दुर्गद्वारभागादौ अयोदण्डमयं चतुरश्रं वर्तुलरूपामात । लक्षणान्तराण्यस्यार्गलनिर्माणस्य तु अस्मत्कृतशिल्पकला दीपिकाख्यायां द्रष्टव्यानीति ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
3
विश्वकर्मवास्तुशास्त्रव्याख्यायां कवाटार्गलादिलक्षणकथनं नाम त्रिपञ्चाशोऽध्यायः ॥
3.