________________
५२५
रङ्गशालां गीतिशालां मिलितां स्थापयेदुधः । देवगन्धर्व मानुष्य भागवय विभाजिताम् ॥ ३ ॥ गीतिशाला नाट्यशाला पृथक्स्थाप्या कचित्स्थले ।
शृङ्गाटकस्थलं नाम पञ्चपसंख्याकानां महाप्रतोल्यादीनां मेलनस्थानमिति केचिन | गज्ञः प्रासादस्य पुरःस्थले, राजवीथीमुखान्तःस्थले वा महाभेरीमहाघण्टावादनार्थं कल्पितं बहुभौमं स्थलरित्यन्ये । तस्मादेवं निर्दिष्टेषु स्थलेपु समुचितवास्तुभूभाग सङ्गीतशालामण्डपकल्पनमिलितामेव तामिमा रङ्गशालां स्थापयेदिति स्थलनिर्देशविकल्पः ||
कचिन्नगरादिषु भूपालवाञ्छानुगुणं नाट्यशालां सङ्गीतशालां, नाटकशाला समुचितस्थले पृथक्पृथक् स्थापयेदित्युपदेशश्शास्त्रीयोऽवधार्यः । तस्मादेवं निर्दिष्टस्थलेषु यथाभूलाभादिविभवं स्थापनीयामिमां रङ्गशालां देवभागगन्धर्वभागमानवभागाख्यभागत्रयेण संयुतां निर्मापयेत् ॥
अत्र कोऽपि क्रमः । यथा नाट्यशाला सङ्गीतशालयोनिर्माणक्रमस्तु शास्त्रकारेणानेन विश्वकर्मणा न प्रतिपादितः, ग्रन्थान्तरेषु ज्ञेयः । तस्मादत्रोक्तकरूपनत्रये नाट्यशालैवाङ्गी; इतर हुयमपि तदङ्गं भवतीति स्फूर्त्या रङ्गशालाख्यनाटकशालाया निर्मितिक्रममेव स्पष्टमुदाहृतवान् शास्त्रकार इति भावः ॥