________________
अथ रङ्गशालाक्षणकथनात्मका एकोनपञ्चाशोऽध्यायः ॥
प्रासादस्य पुरोभागे स्वास्थानस्य तु दक्षिणे। मन्त्रिसेनेस भवनपार्श्वे वा पुरमध्यमे ॥१॥
एकोनपञ्चाशोऽध्यायः ॥
अथास्मिन्नेकोनपञ्चाशाध्याये रङ्गशालानिर्माणक्रमं विशिनापि-प्रासादयेत्यादिना। रङ्गशाला नाम नाटकप्रदर्शनाईस्थलविशेषः। रासकाना सर्वेषा जनाना भावुककुशीलवनट प्रमुखः पूर्वतनपुरुषचरित्राभिनयप्रदर्शनादिवशादानन्ददायिन्यास्तस्या रकशालायाः स्थापनस्थलानि कानीत्याकाङ्कायां तानि निर्दिशति - प्रासादस्येत्यादिना॥
'द्विसहस्रजना यत्र तत्स्थलं रङ्गयोग्यकम' इति वचनात् प्रायशः पुरनगरादिषु स्थापितस्य भूपालप्रासादस्य पुरोभागाख्यमुखचत्वरस्थलस्य सत्यभागस्थले वाऽपसव्यभागस्थले वा तामिमा रङ्गशाला निर्मापयेत् । अथवा भूपालप्रासादस्यान्तस्थलस्थापितस्यास्थानस्थलाख्यकल्पनविशेषस्य दक्षिणभागे स्थापयेत् ॥
. आहोस्वित्सचिवसेनानायकहर्यकल्पनस्य पार्श्वस्थले समुचित्रे स्थापयदिति स्थलानुकूलविकल्पः । अत्रोक्तमनिमविय