________________
५०९
एकभागविहीनं वा क्वचिदर्धेन हीनकम् । मानं प्रयोज्यमित्युक्तं स्थपतीन्द्रः क्वचित्स्थले ॥ ९॥
मानुषी मा च गान्धर्वी देवीति बहुधेरिता । कल्पनाय म्वीकायमित्यर्थः । एतादृशदण्डानां प्रमाणादिकं तूक्तपूर्वमेव ॥
किश्च क्वचित्स्थले एतादृशप्रमाणादर्धभागविहीनत्वेन, कचिदेकभागविहीनत्वेन च कल्पनमानम्य विकल्पोऽवाचीनः स्थपतिवरैरुदीर्यत इति मूलकारणै वात्र तन्मनाविष्करणं कृतं बोध्यम् । तस्मादेतादृशप्रमाणकल्पनीयैपा कल्याणशाला तत्तद्देशकल्पनादि. भेदेन नाना स्वरूपाऽपि मुख्यतइशैलीत्रयशाभिनो परिकीर्तिता बोध्या ॥ यथा - मानुषी कल्याण शाला
गान्धर्वी कल्याण शाला
देवी कल्याणशालेति ॥ अत्राद्या मानुषशैली कशाला तु विप्रवेश्यशूद्रप्रभृतिगृहेषु स्थापनीया । द्वितीया गान्धर्वशैलीकशाला तु भूपभवनादिषु स्थाप्या । अन्त्या देवशैलीकशाला तु देवमन्दिरेष्वेव कलनीयेति तन्क्रमः । किश्चात्र शालासु कि नाम मानुषीशैलीका रचनेत्याका बायां साधारणदण्डेन मात्वा स्थलस्वीकरणं महर्षिप्रमुखानां चित्रादिरूपस्थापनमित्यर्थः ॥
एवङ्गान्धर्व शैल्यां भूपदण्डेन स्थल स्वीकरणं गन्धर्वप्रमुखबिम्ब